________________
लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम्
१३४ अंगुलस्यासंख्यभागः परमत्रेति भाव्यताम् । ऊर्ध्वंगादंगुलस्यांशादंशस्तिर्यगतो लघुः ॥१०॥ एवमधोऽपि ॥ एवं चोर्ध्वलोकमध्यं पृथुलं पंच रज्जवः । हीयतेऽतस्तथैवोर्ध्वं रज्जुरेकावशिष्यते ॥१०२॥ किंचरज्जुमानात् द्वितीयस्मात् क्षुल्लकप्रतराच्चितिः । अधोमुखी च तिर्यक्चांगुलासंख्यांशभागिका ॥१०३॥ एवं चाधोलोकमूले पृथुत्वं सप्त रज्जवः । अथात्र सूचीरज्ज्वादिमानं किंचिनिगद्यते ॥१०४॥ इदं च संग्रहणीवृत्त्यनुसारेण ॥ लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्येते लोकतिर्यग्वृद्धौ ॥ चतुर्भिः खंडुकैः सूचीरजुः श्रेण्या व्यवस्थितैः । ताभिश्चतुर्भिः प्रतररज्जुः षोडशखंडुका ॥१०५।। चतुसृभिश्च प्रतररज्जुभिर्जायते किल । घनरज्जुश्चतुःषष्टिः खंडुकाः सर्वतः समाः ॥१०६॥ अष्टाविंशं शतमध ऊर्ध्वं षट्सप्ततिर्मताः । सर्वाश्चतुर्भिरधिके द्वे शते सूचिरज्जवः ॥१०७॥ दन्तैर्मिता अधोलोके ऊर्ध्वमेकोनविंशतिः । एकपंचाशदाख्याताः सर्वाः प्रतररजवः ॥१०८॥ अधोऽष्टावूर्ध्वलोके च निर्दिष्टा घनरज्जवः । पादोना पंच सर्वाग्रे स्युः पादोनास्त्रयोदश ॥१०९॥ इदं दृष्टलोकमानम् ॥ वर्गितस्य च लोकस्याधोलोके घनरज्जवः । सार्धया पंचसप्तत्याधिकमेकं शतं मतम् ॥११०॥ ऊर्ध्वलोके भवेत्सार्धा त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥१११॥ आसां चतुर्गुणत्वे च सर्वाः प्रतररज्ज्वः । शतानि नव षट्पंचाशता युक्तानि तत्र च ॥११२॥ शतानि सप्त व्यधिकान्यधोलोके प्रकीर्तिताः । ऊर्ध्वलोके द्वे शते च चतुःपंचाशताधिके ॥११३॥ चतुर्गुणत्वे चैतासां भवन्ति सूचिरज्जवः । चतुर्विंशत्युपेतानि त्वष्टात्रिंशच्छतानि वै ॥११४॥ तत्रापिअधोलोके शतान्यष्टाविंशतिः स्फुटमष्ट च । ऊर्ध्वलोके पुनस्तासां सहस्रं षोडशाधिकम् ॥११५॥ इति वर्गितलोकमानम् ॥ घनीकृतो भवेल्लोकः सप्तरज्जुमितोऽभितः । विष्कम्भायामबाहल्यैः सबुद्ध्यैवं विधीयते ॥११६।। एकरज्जुविस्तृतायास्त्रसनाड्यास्तु दक्षिणम् । अधोलोकवर्तिखंडमूनरज्जुत्रयाततम् ॥११७।। सर्वाधस्तात् हीयमानविस्तारत्वादुपर्यथ । रज्ज्वसंख्येयभागोरुसप्तरज्जूच्छ्रयं च तत् ॥११८॥ गृहीत्वोत्तरदिग्भागे त्रसनाड्याः प्रकल्प्यते । विरचय्याधस्तनांशमुपर्युपरिगं त्वधः ॥११९॥ ततोऽधस्तनलोकार्धं किंचिदूनचतुष्टयम् । रज्जूनामाततं सातिरेकं सप्तकमुच्छ्रितम् ॥१२०॥ क्वचित्किंचिदूनसप्तरज्जुबाहल्यमप्यधः । अपरत्र त्वनियतं बाहल्यमिदमास्थितम् ॥१२१॥ किंचऊर्ध्वलोके त्रसनाड्या दक्षिणभागवर्तिनी । द्वे खंडे ये कटीन्यस्तहस्तकूर्परसंस्थिते ॥१२२॥ ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्येकं ब्रह्मलोकमध्ये द्विरज्जुविस्तृते ॥१२३॥ किंचिदूनाध्यर्धरज्जुत्रयोच्छ्रिते च ते उभे । सनाड्या वामपार्थे वैपरीत्येन कल्पयेत् ॥१२४॥ ततश्च रज्ज्वाततया त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्धं जातं तदभिधीयते ॥१२५॥ अंगुलसहस्रांशाभ्यां द्वाभ्यां रज्जुत्रयं युतम् । विष्कम्भतः किंचिदूना रज्जवः सप्त चोच्छ्रयात् ॥१२६॥ बाहल्यतो ब्रह्मलोकमध्ये तत् पंचरज्जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥१२७॥ तदेतदुपरितनं गृहीत्वार्धं निवेशयेत् । अधस्तने संवर्तितलोकार्धस्योत्तरांतिके ॥१२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org