SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ १०९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिणम् - विशिष्टानि टिप्पणानि हा० पृ० ३८८ पं० ६ । “दव्वं सत्थग्गिविसन्नेहबिलखारलोणमाइयं । भावो य दुप्पउत्तो वाया काओ अविरई या ॥११॥३६॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्धा, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविष-स्नेहा-ऽऽम्ल-क्षार-लवणादिकम् । भावशस्त्रं दुष्प्रयुक्तो भाव: अन्तःकरणम्, तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादिति भावः ।" इति शीलाङ्काचार्यविरचितवृत्तियुतायाम् आचाराङ्गनिर्युक्तौ ।। चू० पृ० ४३३ पं० १७ । “कथंभूतं पुनः सामान्यं संग्रहो मन्यते, विशेषांस्तु कुतोऽसौ नाभ्युपगच्छति इति दर्शनार्थमाह- एकं सामान्यम्, सर्वत्र तस्यैव भावात्, विशेषाणां चाभावात् । तथा नित्यं सामान्यम्, अविनाशात् । तथा निरवयवम्, अदेशत्वात् । अक्रियम्, देशान्तरगमनाभावात् । सर्वगतं च सामान्यम्, अक्रियत्वादिति । विशेषास्तु न सन्ति, निःसामान्यत्वात्, सामान्यव्यतिरेकिणां तेषामभावात् । इह यत् सामान्यव्यतिरिक्तं तद् नास्ति यथा खपुष्पमिति" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ __ हे० पृ० ४४१ पं० ४ । “सप्तसु पृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः, तद्यथा-रत्नप्रभापृथिव्यामेकं सागरोपममुत्कृष्टा स्थितिः, शर्कराप्रभायां त्रीणि सागरोपमाणि, वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तमःप्रभायां द्वाविंशतिः, तमस्तमःप्रभायां त्रयस्त्रिंशदिति ॥२३३॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह- या प्रथमायां रत्नप्रभाभिधायां पृथिव्यां ज्येष्ठा उत्कृष्टा स्थितिः सागरोपमलक्षणा सा द्वितीयस्यां पृथिव्यां शर्कराप्रभायां कनिष्ठा जघन्या भणिता । एष तरतमयोगो जघन्योत्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु भावनीयः । तद्यथा- या द्वितीयस्यामुत्कृष्टा सा तृतीयस्यां जघन्या । या तृतीयस्यामुत्कृष्टा सा चतुर्थ्यां जघन्या, एवं या षष्ठ्यामुत्कृष्टा सा सप्तम्यां जघन्या। दसवाससहस्स रयणाए इति प्रथमायां रत्नप्रभायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । इयमत्र भावना- रत्नप्रभायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि, शर्कराप्रभायामेकं सागरोपमम्, वालुकाप्रभायां त्रीणि सागरोपमाणि, पङ्कप्रभायां सप्त, धूमप्रभायां दश, तमःप्रभायां सप्तदश, तमस्तमःप्रभायां कालादिषु नरकावासेषु द्वाविंशतिरिति ॥२३४॥” इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम ॥ हे० पृ० ४५३, चूहा०हे० पृ० ४६५, ४६६ प्रज्ञापनामहादण्डके...। “अह भंते सव्वजीवप्पबहुं महादंडयं वन्नइस्सामि सव्वत्थोवा गब्भवक्कंतिया मणुस्सा १, मणुस्सीओ संखेजगुणाओ २, बादरतेउक्काइया पज्जत्तया असंखेजगुणा ३, अनुत्तरोववाइया देवा असंखेजगुणा ४, उवरिमगेवेजगा देवा खेजगुणा ५, मज्झिमगेवेजगा देवा संखेज्जगुणा ६, हेट्ठिमगेवेजगा देवा संखेजगुणा ७, अच्चुते कप्पे देवा संखेजगुणा ८, आरणे कप्पे देवा संखेजगुणा ९, पाणए कप्पे देवा संखेजगुणा १०, आणए कप्पे देवा संखेज्जगुणा ११, अधेसत्तमाए पुढवीए नेरइया असंखेजगुणा १२, छट्ठीए तमाए पुढवीए नेरइया असंखेज्जगुणा १३, सहस्सारे कप्पे देवा असंखेजगुणा १४, महासुक्के कप्पे देवा असंखेजगुणा १५, पंचमाए धूमप्पभाए पुढवीए नेरइया असंखेजगुणा १६, लंतए कप्पे देवा असंखेजगुणा १७, चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखेजगुणा १८, बंभलोए कप्पे देवा असंखेजगुणा १९, तच्चाए बालुयप्पभाए पुढवीए नेरइया असंखेजगुणा २०, माहिंदे कप्पे देवा असंखेजगुणा २१, सणंकुमारे कप्पे देवा असंखेजगुणा २२, दोच्चाए सक्करप्पभाए पुढवीए नेरइया असंखेजगुणा २३, सम्मुच्छिममणुस्सा असंखेजगुणा २४, ईसाणे कप्पे देवा असंखेजगुणा २५, ईसाणे कप्पे देवीओ संखेजगुणाओ २६, सोहम्मे कप्पे देवा संखेजगुणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy