________________
5
५७७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् यथाऽसावसङ्ख्येयप्रदेशात्मकादि:, तथा दर्श्यते मत्स्यानां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीव - पुद्गलानामिति, उदाहरणमात्रमेतत् एवमन्यथाऽपि सूत्रालापयोजना कर्त्तव्येति । सेयं स्वसमयवक्तव्यता । परसमयवक्तव्यता तु यत्र [पर] समय आख्यायत इत्यादि, यथा
संति पंच महब्भूया, इहमेगेसि आहियं ।
पुढवी आऊ य वाऊ य, तेऊ आगासपंचमा ॥१॥ एते पंच महब्भूया, तेभो एत्ति आहियं ।
卐
अह तेसिं विणासेण, विणासो होति देहिण ||२|| [ सूत्रकृ० १/१/७-८ ] मित्यादि लोकायतसमयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति । शेषसूत्रालापक10 योजनाऽपि स्वबुद्ध्या कार्या । सेयं परसमयवक्तव्यता । स्वसमयपरसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायते । यथा
आगारमावसंता वा, अरण्णा वा वि पव्वया । 卐
I
इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चती ॥ १॥ [सूत्रकृ० १/१/१९] त्यादि । शेषसूत्रालापकयोजना तु स्वधिया कार्येति । सेयं स्वसमय-परसमयवक्तव्यता। [हे० ५२१-५२४] अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाह- से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा स्वसमयादिभेदात् । तत्र यस्यां णमिति वाक्यालङ्कारे, स्वसमयः स्वसिद्धान्तः आख्यायते यथा पञ्च अस्तिकायाः, तद्यथा - धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा- गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा - स 20 एवासङ्ख्यातप्रदेशात्मकादिस्वरूप:, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिङ्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु
15
१. शेषं प्र० । चूर्ण्यनुसारेण सैषा इति पाठो भाति, मलधारिवृत्त्यनुसारेण सेयम् इति पाठो भाति ॥ २. अहियं तेसिं प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org