________________
५२९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् क्व भवान् वसति ? तत्राविशुद्धनगमो भणति अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनान्तरत्वात्। इत्थमपि च व्यवहारदर्शनात् । विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते ततस्तिर्यग्लोके वसामीति संक्षिप्योत्तरं 5 ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह,
एवं भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्र-देवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवं विसुद्धस्स णेगमस्स वसमाणो वसति त्ति एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन् वसति, नान्यथा, इदमुक्तं भवति- यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षित:
तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते 10 तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते अतिप्रसङ्गादिति भावः । एवमेवेत्यादि,
लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके च नैगमोक्तप्रकारा: सर्वेऽपि दृश्यन्ते इति भावः । अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवम्, प्रोषिते देवदत्ते स इह
वसति न वेति केनचित् पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य 15 दर्शनादिति।
___संगहस्सेत्यादि । प्राक्तनाद् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते । इदमुक्तं भवतिसंस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्,
संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ 20 वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते,
नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति। ऋजुसूत्रस्य तु पूर्वस्माद् विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्तते ते संस्तारकेणैवाक्रान्ताः ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स १. प्रोषितदेवदत्ते जेसं१ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org