________________
अनुयोगद्वारसूत्रम् [ सू० ४७५]
५२८ भवं वससि ? विसुद्धतराओ णेगमो भणति-देवदत्तस्स घरे वसामि। देवदत्तस्स घरे अणेगा कोट्ठगा, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-गब्भघरे वसामि । एवं विसुद्धस्स णेगमस्स वसमाणो वसति । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिण्हं सद्दनयाणं 5 आयभावे वसइ । सेतं वसहिदिटुंतेणं ।
[चू० ४७५] से किं तं वसहिदिटुंते ? इत्यादि । णेगम-ववहारा कंठा । संगहस्स वसमाणो वसति त्ति जदा संथारगमारूढो वसति तदा वसति त्ति वत्तव्वं, ण सेसकालं । सेसं कंठं ।।
हा० ४७५] से किं तमित्यादि । अथ किं तद् वसतिदृष्टान्तेन ? तद् 10 यथानाम कञ्चित् पुरुषं पाटलिपुत्रादौ वसन्तं कश्चित् पुरुषो वदेत्- क्व भवान् वसतीति । अत्रैव नयमतान्युच्यन्ते- तत्राविशुद्धो नैगमो भणति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकाल्लोकादनन्तरत्वाद् इत्थमपि व्यवहारदर्शनात्, एवं तिर्यग्लोक-जम्बूद्वीप-भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्र-देवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य नैगमस्य वसन् वसति, यत्र वसति 15 तत्र तिष्ठन्नित्यर्थः। एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्, लोके च 'नेह वसति, प्रोषितः' इति व्यवहारदर्शनात् । सङ्गहस्य तिष्ठन्नपि संस्तारकोपगतः संस्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव । ऋजुसूत्रस्य येष्वाकाशप्रदेशेष्ववगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिति युक्तः अन्वर्थपरिप्रापितार्थः पूर्ववत् । त्रयाणां शब्दनयानामात्मनो 20 भावे वसति, स्वस्वभावानपोहेनैव तत्र वृत्तिकल्पनात्, तदपोहे च तस्यावस्तुत्वप्रसङ्गादिति । तदेतद् वसतिदृष्टान्तेन ।
[हे० ४७५] से किं तं वसहीत्यादि । वसति: निवासः, तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित् पुरुष: पाटलिपुत्रादौ वसन्तं कञ्चित् पुरुषं वदेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org