________________
"
४६९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तत्सङ्ख्यैः समयैरपह्रियन्ते, क्षेत्रपल्योपमासङ्ख्येयभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः, नो चेव णं अवहिया सिय त्ति, परप्रत्यायनार्थं प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित् केनचिदित्थमपहियन्त इति भावः । ननु वायवः सर्वेऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव 5 पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, बादरा अपर्याप्ताः पर्याप्ताश्च । तत्राऽऽद्यराशित्रये प्रत्येकं ते असङ्ख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये 10 प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति । अत्र केचिन्मन्यन्ते - ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, 15 तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः । उक्तं च अत्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कया णं भंते ! जाव वायंति गोयमा ! जया णं वाउयाए आहारियं रीयति, जया णं वाउयाए उत्तरकिरियं रीयइ, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठा वाउयायं उदीरंति, तया णं ईसि जाव वायंति [ भगवतीसूत्र ५।२।१०] । आहारियं रीयति 20 त्ति रीतं रीतिः स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते गच्छति, यदा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरकिरियं ति उत्तरा उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते ।
-
तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि 25 सर्वं पृथ्वीकायिकवद् वक्तव्यम्, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org