SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २६०] ३११ वायुः समुत्थितो नाभे: कण्ठ-शीर्षसमाहतः। नानागन्धावहः पुण्यो गान्धारस्तेन हेतुना॥३॥[ ] . तथा मध्ये कायस्य भवो मध्यम: यदवाचि - वायुः समुत्थितो नाभेरुरोहृदि समाहतः। नाभिं प्राप्तो महानादो मध्यमत्वं समश्नुते॥४॥[ ] तथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरण: पञ्चमः, अथवा पञ्चसु नाभ्यादि-स्थानेषु मातीति पञ्चमः स्वरः । यदभ्यधायि – . वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः। पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते॥५॥[ ] . . तथाऽतिसन्धयते अनुसंधयतिशेषस्वरानिति निरुक्तिवशा?वतः। यदुक्तम् - 10 अतिसंधयते यस्मादेतान् पूर्वोदितस्वरान्। तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥६॥[...] पाठान्तरेण रैवतश्चैवेति। तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितम् - निषीदन्ति स्वरा यस्मिन्निषादस्तेन हेतुना। सर्वांश्चाभिभवत्येव, यदादित्योऽस्य दैवतम्॥७॥[ ]इति। .. तदेवं स्वरा: जीवाजीवनिश्रितध्वनिविशेषाः सत्त वियाहिय त्ति विविधप्रकारैराख्यातास्तीर्थकर-गणधरैरितिश्लोकार्थः। . आह - ननु कारणभेदेन कार्यस्यभेदात् स्वराणांच जिह्वादिकारणजन्यत्वात् तद्वतांच द्वीन्द्रियादित्रसजीवानामसङ्ख्येयत्वाज्जीवनिश्रिता अपि तावत् स्वरा असङ्ख्याता: 20 प्राप्नुवन्ति, किमुताजीवनिश्रिता इति कथं सप्तसङ्ख्यानियमो न विरुध्यत इति ? अत्रोच्यते, असङ्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसु सामान्यस्वरेष्वन्तर्भावाद् बादराणां वा केषाञ्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद् गीतोपकारिणां विशिष्ट स्वराणां वक्तुमिष्टत्वाददोष इति। स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराह - एएसि णमित्यादि । तत्र 25 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy