________________
अनुयोगद्वारसूत्रम् [सू० २३२,२३३]
२७५
दण्डाग्रमित्यादि, समानः सवर्णे दीर्घाभवति [कातन्त्र० १।२।१] इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वात्, उदाहरणमात्रं चैतत्, तस्कर: षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिर्वृत्तेन वा विकारनिष्पन्नेन वाभवितव्यम्, डित्थादिनाम्नामपिसनिरुक्तत्वात् नामच धातुजमाह[ ] इत्यादिवचनात् । ततश्चतुर्भिरप्यैतैः सर्वस्य सङ्ग्रहाच्चतुर्नामेद- 5 मुच्यते। सेत्तं चउनामे त्ति निगमनम् ।
[सू० २३२] से किं तंपंचनामे ? पंचनामे पंचविहे पण्णत्ते। तंजहानामिकं १ नैपातिकं २ आख्यातिकम् ३ औपसर्गिकं ४ मिश्रं ५ च । अश्व इति नामिकम्, खल्विति नैपातिकम्, धावतीत्याख्यातिकम्, परि इत्यौपसर्गिकम्, संयत इति मिश्रम्। सेतं पंचनामे।
10 [चू० २३२] पंचनामसुत्तं कंठं।
[हा० २३२] पंचनाम्नि नामिकमित्यादि सूत्रम्, तत्राऽश्व इति नामिकम्, द्रव्याभिधायकत्वात् । खल्विति नैपातिकम्, खलु शब्दस्य निपातत्वात् । धावतीत्याख्यातिकम्, क्रियाप्रधानत्वात् । परीत्यौपसर्गिकम्, परिः सर्वतोभावे इत्युपसर्गपाठे पठितत्वात् । संयत इति मिश्रम्, सम् एकीभावे इत्यस्योपसर्गत्वात् यती 15 प्रयत्ने [का० धा० ३१४, पा०धा० ३०] इति च प्रकृतेरुभयात्मकत्वाद् मिश्रमिति। तदेतत् पञ्चनाम।
हे० २३२] से किं तं पंचनामे इत्यादि। इहाऽश्व इति नामिकम्, वस्तुवाचकत्वात्। खल्विति नैपातिकम्, निपातेषु पठितत्वात् । धावतीत्याख्यातिकम्, क्रियाप्रधानत्वात् । परीत्यौपसर्गिकम्, उपसर्गेषु पठितत्वात् । संयत इति मिश्रम्, उपसर्ग-नामसमुदाय- 20 निष्पन्नत्वादिति । एतैरपि सर्वस्य क्रोडीकरणात् पञ्चनामत्वं भावनीयम्। सेत्तं पंचनामे त्ति निगमनम्। __ [सू० २३३] से किं तं छनामे ? छनामे छव्विहे पण्णत्ते । तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org