________________
5
[हा० २२७-२३१] से किं तं चउनामे इत्यादि । तत्राऽऽगमेन पद्मानि पयांसि, अत्र आगम: उदनुबन्ध: स्वरादन्त्यात् परः [ कातन्त्र ० २/१/६ ], आगच्छतीत्यागम:, आगम उकारानुबन्धः स्वरादन्त्यात् परो भवति, सिद्धं पद्मानीत्यादि । सेतं आगमेणं । लोपेनापि ते अत्र इत्यादि, अनयो: पदयोः संहितायाम् एदोत्परः पदान्ते लोपमकारः [कातन्त्र० १/२/१७ ], पदान्ते यौ एकारौकारौ ताभ्यां परः अकारो लोपमापद्यते, ततः सिद्धं तेऽत्र 10 पटोऽत्र । सेत्तं लोवेणं । से किं तं पयतीए ? यथाऽग्नी एतौ इत्यादि, एतेषु पदेषु द्विवचनमनौ [कातन्त्र०१।३।२], द्विवचनमौकारान्तं येन्न भवति तल्लक्षणान्तरेण स्वरे परत: प्रकृत्या भवति, सिद्धम् अग्नी एतौ इत्यादि । विकारेणापि दण्डस्य अग्रम् इत्यादि, अत्र समानः सवर्णे दीर्घीभवति परश्च लोपमापद्यते [ कातन्त्र० १/२/१ ], सिद्धं दण्डाग्रम् इत्यादि । सेत्तं विगारेणं ति । एवं चतुर्णाम |
1
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २७४
पयतीए ? यथा अग्नी एतौ इत्यादि, एतेषु पदेषु द्विवचनमनौ [ कातन्त्र० १ ३ २ ], द्विवचनमौकारान्तं यन्न भवति तल्लक्षणान्तरेण स्वरे परतः प्रकृत्या सिद्धं अग्नी एतौ इत्यादि । विकारेणापि दण्डस्य अग्रमित्यादि, अत्र समानः सवर्णे दीर्घीभवति परश्च लोपमापद्यते [कातन्त्र० १/२/१] सिद्धं दण्डाग्रमित्यादि, सेत्तं विकारेण ।
15
[हे० २२७-२३१] से किं तं चउनामे इत्यादि । आगच्छतीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्स्वरा घुटिनुः [कातन्त्र ० २/२/११] इत्यनेनात्र न्वागमस्य विधानात्, उपलक्षणमात्रं चेदम्, संस्कार उपस्कर इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति । लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, एदोत्परः पदान्ते [कातन्त्र०
१।२।१७] इत्यादिना अकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति 20 व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदम्, मनस ईषा मनीषा बुद्धि:, भ्रमतीति भ्रूरित्यादेरपि सकार-मकारादिवर्णलोपेन निष्पन्नत्वादिति । प्रकृतिः स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनौ [कातन्त्र० १/३/२] इत्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदम्, सरसिजं कण्ठेकाल इत्यादीनामपिप्रकृतिनिष्पन्नत्वादिति। वर्णस्यान्यथाभावापादनं विकार:, तेन निष्पन्नं दण्डस्याग्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org