________________
अनुयोगद्वारसूत्रम् [सू० २०८-२०९]
२५९
यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम्।
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा॥१॥[ ] इदं पुनरेकादि दशान्तम् । तथा चाह - नामे दसविधे पण्णत्ते, तंजहा - एगणामे इत्यादि । तत्रैकनामादि-णामाणीत्यादि, नामानि अभिधानानि यानि कानिचिद् लोकरूढानि द्रव्याणां जीवा-ऽजीवभेदानां गुणानां ज्ञानादि-रूपादीनां पर्यायाणां च 5 नारकाद्येकगुणकृष्णादीनाम्, तेषां नाम्नाम् आगमनिकषे समयकषपट्टके सामान्यपरमार्थप्रतिपादनपरद्रव्यनयदर्शनेन अभिधानजात्यभेदाद् नाम इति इयं प्ररूपिता व्यवस्थापिता संज्ञा आख्येति गाथार्थः।
इहचयद्यप्यभिधानेनाभिधेयमभिव्यज्यतेअभिधेयेन चाऽभिधानं, यथासङ्केताद्यभिव्यक्तक्षयोपशमविशेषस्य घटशब्देनोर्द्धकुण्डलोष्ठायतवृत्तग्रीवादिलक्षणो घटार्थः, तेन च 10 घटनामेति, तथापि प्रायोवृत्त्या रूढया च अभिधानमेवाभिधेयाभिव्यञ्जकमिति तदेवेह निरूप्यते इत्येकः । द्रव्यनयदर्शनेन तु अभिधाना-ऽभिधेययोरपि अभेदो भावनीय इत्यलं विस्तरेण । सेत्तं एगणामे।
[हे० २०८-२०९] साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीयं भेदं व्याचिख्यासुराह - से किंतं नामेत्यादि। इहजीवगतज्ञानादिपर्याया-ऽजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तुभेदं 15 नमति तदभिधायकत्वेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः । उक्तं च -
जंवत्थुणोऽभिहाणं पज्जयभेयाणुसारितं नाम।
पइभेयं जं नमए पइभेयं जाइ जंभणि॥१॥[विशेषावश्यकभा० ९४४] इदं च दशप्रकारं कथमित्याह - एगनामे इत्यादि । इह येन केनचिन्नाम्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्थाअभिधातुंशक्यन्ते तदेकनामोच्यते।यकाभ्यांतुनामभ्यांद्वाभ्यामपि 20 सर्वं विवक्षितवस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम । यैस्तु त्रिभिर्नामभि: सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम। यैस्तु चतुर्भिर्नामभि: सर्वं विवक्षितवस्त्वभिधीयते तच्चतुर्नाम । एवमनया दिशा ज्ञेयं यावद् यैर्दशभिर्नामभिः सर्वं विवक्षितवस्तु प्रतिपाद्यते तद् दशनामेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org