________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २५२
युक्तम्, अधस्तादनुरूपं न भवति, तस्मात् प्रमाणाधीनतरं न्यग्रोधपरिमण्डलम्। नाभीत: अध:आदिलक्षणयुक्तम्, उपरि तदनुरूपं नभवति, बाहुद्वयावयवादि (ही?)नतरं सादि। ग्रीवाद्युपरि हस्त-पादयोरप्यादिलक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जम्, स्कन्ध-पृष्ठदेश
वृद्धमित्यर्थः । लक्षणयुक्तमध्य(ध्यं)ग्रीवाद्युपरि हस्त-पादयोरप्यादिलक्षणन्यूनं वामनम्। 5 सर्वावयवाः प्राय: आदिलक्षणविसंवादिनो यस्य तद् हुण्डम् । उक्तं च
तुल्लं वित्थरबहुलं उस्सेहबहुंचमडहकोठेंच।
हेढिल्लकायमडहंसव्वत्थाऽसंठियं हुंडं॥१॥[जिन० संग्र० १७६] पूर्वानुपूर्वीक्रमश्च यथाप्रथममेवप्रधानत्वादिति। शेषमानिगमनं पाठसिद्धमेवेति।
[हे० २०५] अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह -से किं तमित्यादि। आकृति10 विशेषा: संस्थानानि, तानिचजीवाजीवसम्बन्धित्वेन द्विधाभवन्ति, तत्रेह जीवसम्बन्धीनि, तत्रापि पञ्चेन्द्रियसम्बन्धीनि वक्तुमिष्टानि, अतस्तान्याह - समचउरंसे इत्यादि, तत्र समाः शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्ववर्त्यवयवरूपाश्चतस्रोऽस्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्र संस्थानम्, तुल्यारोह-परिणाह: सम्पूर्णलक्षणोपेताङ्गोपाङ्गावयवः
स्वाङ्गुलाष्टाधिकशतोच्छ्य: सर्वसंस्थानप्रधान: पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थ: १। 15 नाभेरुपरिन्यग्रोधवन्मण्डलम् आद्यसंस्थानलक्षणयुक्तेन विशिष्टाकारं न्यग्रोधमण्डलम्,
न्यग्रोधो वटवृक्षः, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भावः २। सह आदिना नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादित्वविशेषणम्, सत्यम्, किं त्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिहगृह्यते, ततस्तथाभूतेन आदिनासह 20 यद्वर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकलं तत् सादीति तात्पर्यम् ३ । यत्र
पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्णम्, शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत् कुब्जम्४। यत्रतु हृदयोदरपृष्ठं सर्वलक्षणोपेतम्, शेषंतु हीनलक्षणं तवामनंकुब्जविपरीतमित्यर्थ: ५। यत्र सर्वेऽप्यवयवा:प्रायो लक्षणविसंवादिन एवभवन्ति तत् संस्थानं हुण्डमिति ६ । अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वम्, शेषाणां तु यथाक्रमं हीनत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org