SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २०१-२०२] २४७ स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येया: समया: स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेणसुकरैव। _[हे० २०१- २०२] इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराह - से किं तमित्यादि। एक: समय: स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येया: समया: स्थितिर्यस्यस तथेतिपूर्वानुपूर्वी, शेषभावनात्वत्रपूर्वोक्तानुसारेणसुकरैव।अथ कालविचारस्य 5 प्रस्तुतत्वात्समयादेश्चकालत्वेनप्रसिद्धत्वाद्अनुषङ्गतोविनेयानांसमयादिकालपरिज्ञानदर्शनाच्च तद्विषयत्वेनैव प्रकारान्तरेण तामाह - अहवेत्यादि, तत्र समयो वक्ष्यमाणस्वरूप:सर्वसूक्ष्मः कालांश:, सचसर्वप्रमाणानांप्रभवत्वात् प्रथमं निर्दिष्टः १, तैरसङ्ख्येयैर्निष्पन्नाआवलिका २, सङ्ख्येया आवलिका: आण त्ति आनः, एक उच्छ्वास इत्यर्थः ३, ता एव सङ्ख्येया निःश्वासः, अयं च सूत्रेऽनुक्तोऽपिद्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति४, द्वयोरपिकाल: पाणु 10 त्ति एकः प्राणुरित्यर्थ: ५, सप्तभिः प्राणुभिःस्तोकः ६, सप्तभि: स्तोकैर्लव:७, सप्तसप्तत्या लवानां मुहूर्त्तः ८, त्रिंशता मुहूर्तेरहोरात्र: ९, तैः पञ्चदशभिः पक्ष: १०, ताभ्यांद्वाभ्यां मास: ११,मासद्वयेन ऋतुः१२, ऋतुत्रयमानमयनम् १३, अयनद्वयेनसंवत्सरः१४, पञ्चभिस्तैर्युगम् १५, विंशत्या युगैर्वर्षशतम् १६, तैर्दशभिर्वर्षसहस्रम् १७, तेषां शतेन वर्षशतसहस्रम्, लक्षमित्यर्थ: १८, चतुरशीत्या चलः पूर्वाङ्गं भवति १९, तदपिचतुरशीतिलक्षैर्गुणितं पूर्वं 15 भवति २०, तच्च सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च - पुव्वस्स उ परिमाणं सयरि खलु हुंति कोडिलक्खाउ। छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं॥१॥ [जिन० संग्र० ३१६] स्थापना७०५६००००००००००। ___ इदमपि चतुरशीत्यालक्षैर्गुणितंत्रुटिताङ्गं भवति २१, एतदपि चतुरशीत्यालक्षैर्गुणितं 20 त्रुटितम् २२, तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गम् २३, एतदपि तेनैव गुणकारेण गुणितमटटम् २४, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यम्, ततश्च अववाङ्गम् २५, अववम् २६, हूहुकाङ्गम् २७, हूहुकम् २८, उत्पलाङ्गम् २९, उत्पलम् ३०, पद्माङ्गम् ३१, पद्मम् ३२, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy