SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २३८ शेषद्रव्येभ्योऽसङ्खयेयै गैरधिकानि व्याख्येयानि, शेषद्रव्याणित्वानुपूर्वीद्रव्याणामसङ्खयेयभाग एव वर्तन्त इति।भावना त्वित्थं कर्तव्या- इहानानुपूक्मेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्त्यां तु त्रिसमय-चतु:समय-पञ्चसमयस्थित्यादीन्येकोत्तरवृद्धयाऽसङ्खयेयसमयस्थित्यन्तान्य5 सङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्येयगुणत्वम् । इतरयोस्तु तदसङ्ख्येयभागवर्तित्वमिति। भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपिपूर्ववद्भावनीयम्। अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, द्विसमयस्थितिकद्रव्याणांस्वभावत एव स्तोकत्वात्, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां 10 निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वात्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्योऽसङ्ख्यातगुणत्वं भागद्वारे भावितमेव, शेषं तु क्षेत्रानुपूर्व्याधुक्तानुसारतः सर्वं वाच्यमिति । अत एव केषुचिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्टं दृश्यते, न तु विशेषतो लिखितमिति। सेत्तमित्यादि निगमनम्। उक्ता नैगम-व्यवहारनयमतेनानौपनिधिकी कालानुपूर्वी, अथ संग्रहनयमतेन 15 तामेव व्याचिख्यासुराह - से किं तमित्यादि। यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग् निर्दिष्टा तथाऽत्रापि वाच्या, नवरं तिसमयठिईया आणुपुव्वी जाव असंखेजसमयठिईया आणुपुव्वीत्याद्यभिलाप: कार्यः, शेषं तु तथैवेति । उक्ता संग्रहमतेनाप्यनौपनिधिकी कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः। [सू० २०१] [१] से किं तं ओवणिहिया कालाणुपुवी ? ओवणिहिया 20 कालाणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी३। [२] से किं तं पुव्वाणुपुव्वी? पुव्वाणुपुत्वी एगसमयठितीए, दुसमयठितीए, तिसमयठितीएजावदससमयठितीए जावसंखेज्जसमयठितीए, असंखेज्जसमयठितीए। सेतं पुव्वाणुपुव्वी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy