________________
अनुयोगद्वारसूत्रम् [सू० १९५-२००]
जघन्यतया समयोऽन्तरे लभ्यते । उक्कोसेणं दो समय त्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टतोऽन्तरे भवतः, यदि पुन: परिणामान्तरेण क्षेत्रादिभेदतः समयद्वयात् परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत्, ततोऽन्तरमेव न स्यादिति भावः । नानाद्रव्याणां तु नास्त्यन्तरम्, सर्वदा लोकस्य तदशून्यत्वादिति ।
२३७
Jain Education International
अनानुपूर्वीचिन्तायाम् एगदव्वं पडुच्च जहण्णेणं दो समय त्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकालः, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठेत् तदा अन्तरमेव न स्यात् तत्राप्यनानुपूर्वीत्वात्, अथ समयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भावः । उक्कोसेणं असंखेज्जं कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयकालमनुभूय 10 पुनरेकसमयस्थितिकं परिणाममनुभवति तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकालः प्राप्यते । आहननु च अन्यान्यद्रव्य - क्षेत्रसम्बन्धे तस्यानन्तोऽपि कालोऽन्तरे लभ्यते किमित्यसङ्ख्येय एवोक्तः? सत्यम्, किन्तुकालानुपूर्वीप्रक्रमात् कालस्यैवेह प्राधान्यं कर्तव्यम्, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धतोऽ-न्तरकालबाहुल्यं क्रियते तदा तद्द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्राधान्य-माश्रितं स्यान्न कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्टः कालो 15 लभ्यते स एवान्तरे चिन्त्यते, सचासङ्ख्येय एव, ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवतः सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधे न भावनीयमिति । नानाद्रव्याणां तु नास्त्यन्तरम्, प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति ।
अवक्तव्यकद्रव्यचिन्तायां जहणणेणं एगं समयं ति, द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव 20 द्विसमयस्थितिकपरिणाममासादयति तदा समयो जघन्यान्तरकालः । उक्कोसेणं असंखेजं कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयं कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसङ्ख्यात उत्कृष्टान्तरकालोभवति, आक्षेप परिहारावत्राप्यनानुपूर्वीवद् द्रष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तद्भावादिति ।
उक्तमन्तरद्वारम्, भागद्वारे तु यथा द्रव्य-क्षेत्रानुपूर्व्योस्तथैवानुपूर्वी द्रव्याणि 25
For Private & Personal Use Only
5
www.jainelibrary.org