________________
अनुयोगद्वारसूत्रम् [सू० १६८-१७१]
२१९
[हे० १६४-१६७]साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानु पूर्व्यादिभावं दिदर्शयिषुरधोलोकादीनां च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह - अहोलोकखेत्ताणुपुव्वी तिविहेत्यादि। अधोलोकक्षेत्रविषया आनुपूर्वीअधोलोकक्षेत्रानुपूर्वी, औपनिधिकीति प्रक्रमाल्लभ्यते, सा त्रिविधा प्रज्ञप्ता, तद्यथेत्यादिशेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि। इन्द्रनीलादिबहुविधरत्नसम्भवान्नरकवर्जं प्रायो रत्नानां प्रभा ज्योत्स्ना यस्यां सारत्नप्रभा, 5 एवं शर्कराणाम् उपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकायावापरुषपांशूत्कररूपाया:प्रभास्वरूपावस्थितिर्यस्यांसावालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्य प्रभा यस्यांसापङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तम:प्रभा, कृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, 10 महातमसः प्रभायस्यां सामहातम:प्रभा, अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत् तमस्तमस्तमः, तद्रूपद्रव्ययोगात् तमस्तमा इति।अत्रप्रज्ञापकप्रत्यासत्ते रत्नप्रभाया आदावुपन्यास:, तत: परं व्यवहितव्यवहिततरादित्वात्क्रमेणशर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वम्, व्यत्ययेन पश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्यां 15 द्रष्टव्यानीति, शेषभावना पूर्ववदिति।
[सू० १६८] तिरियलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहापुव्वाणुपुव्वी१, पच्छाणुपुव्वी २, अणाणुपुव्वी ३। [सू० १६९] से किं तं पुव्वाणुपुव्वी? पुव्वाणुपुव्वी
जंबुद्दीवेलवणेधायइ-कालोय-पुक्खरेवरुणे। खीर-घय-खोय-नंदी-अरुणवरे कुंडले रुयगे॥११॥ जंबुद्दीवाओखलु निरंतरा, सेसयाअसंखइमा। भुयगवर-कुसवरा वियकोंचवराऽऽभरणमाईया(ईय)॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org