________________
अनुयोगद्वारसूत्रम् [सू० १३९-१५१]
१९७
द्रव्यानुपूर्त्यां तथैव कर्तव्या, विशेषं तु वक्ष्यामः । तत्र तिपएसोगाढे आणुपुब्वि त्ति, त्रिषु नभ:प्रदेशेष्ववगाढः स्थितः त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी । ननु यदि द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वम् ? सत्यम्, किन्तु क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, 5 प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वम्, तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः।
यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते? उच्यते - संतपयपरूवणयेत्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाच्च प्रायो 10 वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वात्, एवमन्यदपि कारणमभ्यूह्यमित्यलं विस्तरेण । एवं चतुष्प्रदेशावगाढादिष्वपि भावना कार्या, यावदसङ्ख्यातप्रदेशावगाढा(ढ?) आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यः, यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति- परमाणुराकाशस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोऽ- 15 सङ्ख्यातप्रदेशिकान्तास्तुस्कन्धा:प्रत्येकंजघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्रस्कन्धेयावन्त: परमाणवोभवन्ति सतावत्स्वेवनभ:प्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव, उत्कृष्ट तस्त्वसङ्खये येष्वेव नभःप्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्खयेयप्रदेशत्वात्, अलोकाकाशे चद्रव्यावगाहाभावादित्यलंप्रसङ्गेन।
प्रकृतमुच्यते । तत्रानुपूर्वीप्रतिपक्षत्वादनानुपूर्व्यादिस्वरूपमाह- एगपएसोगाढे 20 अणाणुपुव्वि त्ति, एकस्मिन्नभ:प्रदेशे अवगाढः स्थित एकप्रदेशावगाढः परमाणुसङ्घात: स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः। दुपएसोगाढे अवत्तव्वएत्ति प्रदेशद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम्, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूर्व्या व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो यावद् द्रव्यप्रमाणद्वारे नेगमववहाराणं आणुपुग्विदव्वाइं किं संखेज्जाइमित्यादि प्रश्नः । अत्रोत्तरम् - नो 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org