________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १९०
निक्षिप्तस्य चाङ्कस्य यथासम्भवं पुरओ त्ति अग्रत: उपरितनाङ्कस्तुल्यं सदृशं यथा भवत्येवं न्यस्येत्, उपरितनाङ्कसदृशानेवाङ्कान्निक्षिपेदित्यर्थः, पुव्वक्कमो सेसे त्ति स्थापितशेषानङ्कान्निक्षिप्ताङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः । य: सङ्ख्यया
लघुरेककादिः स प्रथमं स्थाप्यते, यस्तु तया महान् द्विकादिः स पश्चादिति पूर्वक्रमः 5 पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना । भावार्थस्तु
दिग्मात्रदर्शनार्थं सुखाधिगमाय च त्रीणि पदान्याश्रित्य तावद् दर्शाते, तेषां च परस्पराभ्यासे षड् भङ्गा भवन्ति, ते चैवमानीयन्ते, पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा १२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः स तदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते उवरिमतलमित्यादि10 वचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्ग: २१३, अत्र च द्विकस्य
विद्यते एककोज्येष्ठः परं नासौ तदधस्तान्निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, स तदधस्तान्निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेकक-त्रिको क्रमेण स्थाप्येते,
पुव्वक्कमो सेसे त्ति वचनात्, ततस्तृतीयोऽयं भङ्गः १३२, अत्राप्येककस्य ज्येष्ठ एव नास्ति, 15 त्रिकस्य तु ज्येष्ठोऽस्ति द्विको न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककःस्थाप्यते, अग्रतस्तु द्विकः, उवरिमतुल्लमित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयंभङ्ग: ३१२, एवमनया दिशा पञ्चम-षष्ठावप्यभ्यूह्यौ, सर्वेषां चामीषामियं स्थापना- | १२३ अत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादन्त्यस्य च
पश्चानुपूर्वीत्वान्मध्यमा एव १३२ चत्वारोऽनानुपूर्वीत्वेन मन्तव्याः, एवमनयोद्दिष्टया 20 चतुरादिपदसम्भविनोऽपि भङ्गा ३३१ भावनीयाः । भूयांसश्चहोत्तराध्ययनटीकादिनिर्दिष्टाः प्रस्तुतभङ्गानयनोपाया: सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तदर्थिना तु तत एवावधारणीयाः । तदिदमत्र तात्पर्यम्-पूर्वानुपूर्ध्या तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वम्, पश्चानुपूर्त्यां त्वद्धासमयस्य प्रथमत्वम्,
पुद्गलास्तिकायादीनां तुप्रतिलोमतया द्वितीयादित्वम्, अनानुपूर्त्यां त्वनियमेन क्वचिद्भङ्गके 25 कस्यचित् प्रथमादित्वमित्यलं विस्तरेण । सेतमित्यादि निगमनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org