________________
१८९
अनुयोगद्वारसूत्रम् [ सू० १३४] कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी, एकैक उत्तर: प्रवर्द्धमानो यस्यां सा तथोक्ता, तस्यां पुन: कथंभूतायामित्याह-छगच्छगताए त्ति, षण्णां गच्छ: समुदाय: षड्गच्छस्तंगताप्राप्ताषड्गच्छगता, तस्याम्, धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः। आदौ व्यवस्थापितैककाया: पर्यन्ते न्यस्तषट्काया धर्मास्तिकायादिवस्तुषट्कविषयाया: पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्याभवतिसाआद्यन्तभङ्गद्वयरहिताअनानुपूर्वीतिभावार्थः। 5
___ तत्रोवधि: किलैककादयः षट्पर्यन्ताअङ्का: स्थापिताः। तत्र चैककेन द्विकेगुणिते जातौ द्वावेव, ताभ्यां त्रिको गुणितो जाता: षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतम्, षट्कस्य च तद्गुणने जातानि विंशत्यधिकानि सप्त भङ्गशतानि, स्थापना- ६ | आगतम् ७२०, अत्राऽऽद्यो भङ्गः पूर्वानुपूर्वी, अन्त्यस्तु पश्चानुपूर्वीति । तदपगमे शेषाण्यष्टादशोत्तराणि सप्त 10 भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र [१] च भगकस्वरूपानयनार्थं करणगाथा -
पुव्वाणुपुब्विहिट्ठा समयाभेएण कुरु जहाजेठें। उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्कमो सेसे ।।११।। [विशेषावश्यकभा० ९४३]इति।
व्याख्या- इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्या: हेट्ठ त्ति अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः कुरु त्ति स्थापय, एकादीनि पदानीति शेषः, 15 कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठम्, यो यस्यादौ सतस्य ज्येष्ठो यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एवं चसति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याह-समयाभेदेनेति, समय: संकेत: 20 प्रस्तुतभङ्गकरचनव्यवस्था, तस्य अभेद: अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्यात्,, उक्तं च
जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ कायव्वो। सो होइ समयभेदो वज्जेयव्वो पयत्तेणं ॥१॥[ ]
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org