________________
अनुयोगद्वारसूत्रम् [सू० १२१]
१७३
इत्यादि सप्त भङ्गाः, व्यक्तिबहुत्वाभावाद् बहुवचनानुपपत्तितः शेषभङ्गाभाव इति, एवं भङ्गोपदर्शनायामपि भावनीयम् ।
[हे० ११७-१२०] भङ्गसमुत्कीर्तनतां निर्दिदिक्षुराह- एयाए णमित्यादि। अत्रापि व्याख्या कृतैव द्रष्टव्या यावत् अत्थि आणुपुव्वीत्यादि, इहैकवचनान्तास्त्रय एव प्रत्येकभङ्गाः, सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावात् । आनुपूर्व्यादि- 5 पदत्रयस्य च त्रयो द्विकसंयोगा भवन्ति, एकैकस्मिँश्च द्विकयोगे एकवचनान्त एकैक एव भङ्गः, त्रिकयोगेऽपि एक एवैकवचनान्त इति, सर्वेऽपि सप्त भङ्गा: संपद्यन्ते, शेषास्त्वेकोनविंशतिर्बहुवचनसम्भवित्वान्न भवन्ति अत्र। स्थापना-आनुपूर्वी १ अनानुपूर्वी १अवक्तव्यक १ इति त्रयः प्रत्येकभङ्गाः । आनुपूर्वी १ अनानुपूर्वी १ इति प्रथमो द्विकयोगः । आनुपूर्वी १ अवक्तव्यक १ इति द्वितीयो द्विकयोगः । अनानुपूर्वी १ अवक्तव्यक १ इति तृतीयो 10 द्विकयोगः । आनुपूर्वी १ अनानुपूर्वी १ अवक्तव्यक १ इति त्रिकयोगः । एवमेते सप्त भङ्गाः। सेत्तमित्यादि निगमनम्।
भङ्गोपदर्शनतां बिभणिषुराह - एयाए णमित्यादि । अत्रापि सप्त भङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः । भावार्थस्तु सर्वः पूर्ववत् । सेत्तमित्यादि निगमनम् ।
[सू० १२१] से किं तं समोयारे ? समोयारे - संगहस्स 15 आणुपुव्विदव्वाइं कहिं समोयरंति ? किं आणुपुव्वीदव्वेहिं समोयरंति? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? → संगहस्स आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति, नो अणाणुपुव्वीदव्वेहिं समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति । एवं ।। दोण्णि वि सट्ठाणे सट्ठाणे समोयरंति। सेतं समोयारे।
[चू० १२१] संगहस्स समोयारो सट्ठाणे पूर्ववद्वाच्यः । चोदक आह - जं सट्ठाणे समोयरंति'त्ति भणह किं तं आतभावसट्ठाणं? परदव्वं वा समभावपरिणामत्तणतो सट्ठाणं?, जति आतभावसट्ठाणं तो आतभावे द्वितत्तणतो ण समोयारो भवति, अध परदव्वं तो
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org