________________
5
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् १६४ इति । सान्निपातिको य एषामेव द्विकादिसंयोगादुपजायते । एष शब्दार्थः, भावार्थं पुनरमीषां स्वस्थाने एवोपरिष्टाद् वक्ष्यामः । नवरं निर्वचनसूत्रोपयोगीति कृत्वा पारिणामिकभावार्थो लेशत: प्रतिपाद्यत इति । इह परिणामो द्विविध:- सादिरनादिश्च । तत्र धर्मास्तिकायादिद्रव्यत्वाद्यनादिपरिणामः, रूपिद्रव्येष्वादिमान्, तद्यथा अथ्रेन्द्रधनुरादिपरिणाम इति, एवम [व] स्थिते सतीदं निर्वचनसूत्रम् - णियमा इत्यादि, नियमेन अवश्यन्तया सादिप(पा) रिणामिके भावे भवन्ति, तथापरिणतेरनादित्वाभावाद् उत्कृष्टतो द्रव्याणां विशिष्टैकपरिणामित्वेनासंख्येयकालस्थिते: । शेषं सूत्रसिद्धम् । द्वारम् ८ ।
[हे० ११३] उक्तं भागद्वारम्, साम्प्रतं भावद्वारमाह - णेगम - ववहाराणमित्यादि प्रश्नः । अत्र च औदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव 10 वक्ष्यते । अत्र निर्वचनसूत्रे नियमा साइपारिणामिए भावे होज्ज त्ति, परिणमनं द्रव्यस्य तेन तेन रूपेण वर्तनं भवनं परिणाम:, स एव पारिणामिकः, तत्र भवस्तेन वा निर्वृत्त इति वा पारिणामिकः, स च द्विविधः - सादिरनादिश्च तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः अनादिकालात्तद्द्रव्यत्वेन तेषां परिणतत्वात्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रन्द्रधनुरादीनां तथापरिणतेरनादित्वाभावात्, एवं स्थिते नियमाद् अवश्यंतयाऽऽनुपूर्वी15 द्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात् विशिष्टैक परिणामेन पुद्गलानामसङ् ख्येयकालमेवावस्थानादिति भावः अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति ८ ।
[सू० ११४] [१] एएसि णं भंते! णेगम-ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्ठ20 पएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोतमा ! सव्वत्थोवाइं णेगम - ववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्वीदव्वाइं दव्वट्टयाए विसेसाहियाई, आणुपुव्वदव्वाइं दव्वट्टयाए असंखेज्जगुणाई ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org