________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १६०
नैतदेवम्, यस्यान्येन संयोगो जातस्तस्यासङ्ख्येयकालाद् वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तर्हि परमाणो: किमायातम्, तस्यान्यसंयोगस्य तदवस्थत्वात् ? तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्त
एवान्तरकालो न त्वनन्त इति । कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति ज्ञायते इति 5 चेत्, सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणो: पुन: परमाणुभवने
ऽसङ्ख्येयरूपस्यैवान्तरकालस्योक्तत्वादित्यलं विस्तरेण । नाणादव्वाइं पडुच्चेत्यादि पूर्ववद्भावनीयम्।
अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् एगं दव्वं पडुच्चेत्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिक: स्कन्धो विघटित: स्वतन्त्रं परमाणुद्वयं जातम्, समयं चैकं तथा स्थित्वा 10 पुनस्ताभ्यामेव परमाणुभ्यां द्विप्रदेशिक: स्कन्धो निष्पन्न; अथवा विघटित एव द्विप्रदेशिक:
स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते । उक्कोसेणं अणंतं कालं ति, कथम् ? अत्रोच्यते - अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातम्,
तच्चानन्तैः परमाणुभिरनन्तद्वर्यणुकस्कन्धैरनन्तैस्त्र्यणुकस्कन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः 15 सह क्रमेणसंयोगमासाद्य उत्कृष्टान्तराधिकाराच्चप्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय
कालस्यानन्तत्वात्यदा पुनरपि तथैव द्वयणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकाल: प्राप्यते । नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् वक्तव्या ६।
सू० ११२] [१] णेगम-ववहाराणं आणुपुव्वीदव्वाइं सेसदव्वाणं 20 कइभागे होज्जा? किं संखेज्जइभागे होज्जा? असंखेज्जइभागे होज्जा?
संखेज्जेसुभागेसुहोज्जा? असंखेज्जेसुभागेसुहोज्जा? नो संखेज्जइभागे होज्जा, नोअसंखेज्जइभागे होज्जा, नोसंखेज्जेसुभागेसु होज्जा, नियमा असंखेज्जेसु भागेसु होज्जा।
[२] णेगम-ववहाराणं अणाणुपुव्वीदव्वाइं सेसदव्वाणं कइभागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org