________________
अनुयोगद्वारसूत्रम् [सू० १०९]
१५३
[चू० १०९] इदाणिं फुसणा- किं संखेज्जतिभागे इत्यादिसव्वं सुत्तसिद्धं । णवरं अवगाहणाणंतरट्ठिते छद्दिसिं पदेसे फुसति त्ति भावेतव्वं ।
[हा० १०९] साम्प्रतं स्पर्शनाद्वारावसरः, तत्रेदं सूत्रं णेगम-ववहाराणमित्यादि निगमनान्तं निगदसिद्धमेव। नवरं क्षेत्र-स्पर्शनयोरयं विशेष:- क्षेत्रमवगाहमात्रम्, स्पर्शना तु षट्स्वपि दिक्षु तद्वहिरपि वेदितव्येति यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशा स्पर्शनेति। 5 स्यादेतद् – एवं सति अणोरेकत्वं हीयत इति, उक्तं च- दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते । [विंशतिका विज्ञप्तिमात्रतासिद्धिः १४ ] इति, एतदयुक्तम्, अभिप्रायापरिज्ञानात्, न ांशत: स्पर्शना नाम काचित्, अपि तु नैरन्तर्यमेव स्पर्शनां ब्रूम इति, अत्र बहु वक्तव्यम्, तत्तु नोच्यते विस्तरभयादिति । द्वारम् ४ ।
हे० १०९] उक्त क्षेत्रद्वारम्, साम्प्रतं स्पर्शनाद्वारमुच्यते - नेगम-ववहाराण- 10 मित्यादि । भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्र-स्पर्शनयोरयं विशेष: - क्षेत्रम् अवगाहाक्रान्तप्रदेशमात्रम्, स्पर्शना तु षड्दिक्कैः प्रदेशैस्तद्बहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहना-स्पर्शनयोरन्यत्रोक्तो भेदः - एगपएसोगाढं सत्तपएसाय से फुसण[ ]त्ति, अस्यार्थः - परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु से तस्य सप्तप्रदेशा भवति, षड्दिग्व्यवस्थितान् षट् प्रदेशान् यत्रावगाहस्तं च 15 स्पृशतीत्यर्थः, एवमन्यत्रापि क्षेत्र-स्पर्शनयोर्भेदो भावनीयः।
___ अत्र सौगता: प्रेरयन्ति- यदि परमाणो: षड्दिक्स्पर्शनाऽभ्युपगम्यते तर्खेकत्वमस्य हीयते, तथाहि- प्रष्टव्यमत्र किं येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ? यदि तेनैव तदा अयं पूर्वदिक्सम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागोन स्यात्, एकस्वरूपत्वात्, विभागाभावे चषदिक्सम्बन्धवचनमुपप्लवत 20 एव । अथापरो विकल्प: कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्या एकत्वं विशीर्यते, उक्तं चदिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते [विंशतिका विज्ञप्तिमात्रतासिद्धिः १४] इति ।
___ अत्र प्रतिविधीयते - इह परमाणुद्रव्यमादि-मध्या-ऽन्तादिविभागरहितं निरंशमेकस्वरूपमिष्यते, अत: सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org