________________
अनुयोगद्वारसूत्रम् [सू० १०२-२०३]
१४३
तिपदेसिएण आणुपुव्वि त्ति भंगो, किं पुणो भंगोवदंसणाए भणाति जधा तिपदेसिता आणुपुव्वीत्यादि ? आचार्य आह– सुणेहि, जहा संहितादिछव्विधे व्याख्यानलक्षणे पदत्थं भाणिऊण पुणो तमेवऽत्थं सवित्थरं सुत्तप्फासियाए समास-चालणा-पसिद्धीहि भणंतस्स ण दोसो, तधा इहं पि अट्ठपदपरूवणाए पदत्थमेत्ते उवदिढे भंगुक्कित्तणे य हेतुविकले कते भंगोवदसणाए सहेतुभंगोवदंसणे सवित्थरे ण दोसो भवति । सेसं कंठं।गता 5 भंगोवदंसणा।
हा० १०२-१०३] शेषमनिगूढार्थं यावत् तिपदेसिए आणुपुव्वी इत्यादि । त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, एवमर्थकथनपुरस्सरा: शेषभङ्गा अपि भावनीया इति। एतदुक्तंभवति-तैरेवभङ्गकाभिधानैस्त्रिप्रदेश-परमाणुपुद्गल-द्विप्रदेशार्थकथनविशिष्टैस्तदभिधेयान्वाख्यानं भङ्गोपदर्शनतेति । आह- अर्थपदप्ररूपणा-भङ्गसमुत्कीर्त्तनाभ्यां 10 भङ्गोपदर्शनार्थतावगमाद् भेदतस्तदभिधानमयुक्तमिति, अत्रोच्यते – न, उभयसंयोगस्य वस्त्वन्तरत्वाद्नयमतवैचित्र्यप्रदर्शनार्थत्वाच्चादोष इति।शेषम् आनिगमनंसूत्रसिद्धमिति।
[हे० १०२-१०३] उक्ता भङ्गोत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराहएताए णमित्यादि । एतया भङ्गसमुत्कीर्तनतया किं प्रयोजनमिति । अत्रोत्तरमाह - एताए णमित्यादि, एतया भङ्गसमुत्कीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्ग- 15 समुत्कीर्तनतायां भङ्गकसूत्रमुक्तम्, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते । तच्च सूत्रे समुत्कीर्तित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वात्, अतो युक्तं भङ्गकसमुत्कीर्तनतायां भङ्गोपदर्शनताप्रयोजनम् । अत्राऽऽह- ननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादेः कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्युत्कीर्तयिष्यते, तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यम्, किन्तु 20 भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोषः, यथा हि संहिता च पदं चैव [ ] इत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते तद्वदत्रापीति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org