________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १४०
हे० १००-१०१] एताएणमित्यादि, एतयाअर्थपदप्ररूपणतयाकिं प्रयोजनमिति, अत्राऽऽह- एताए णमित्यादि । एतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते, इदमुक्तं भवति - अर्थपदप्ररूपणतायां संज्ञा-संज्ञिव्यवहारो निरूपितः, तस्मिंश्च
सति एव भङ्गका: समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण निर्विषयाणां भङ्गानां 5 प्ररूपयितुमशक्यत्वात्, तस्माद् युक्तमुक्तम् - एतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियत इति।
तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाह - से किं तमित्यादि प्रश्नः, अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय एव
भङ्गाः, एवमेतेऽसंयोगत: प्रत्येकं भङ्गाः षड् भवन्ति । संयोगपक्षे तु पदत्रयस्यास्य त्रयो 10 द्विकसंयोगा:, एकैकस्मिंस्तु द्विकसंयोगे एकवचन-बहुवचनाभ्यां चतुर्भङ्गीसद्भावत: त्रिष्वपि द्विक[सं]योगेषु द्वादश भङ्गाः संपद्यन्ते । त्रिकसंयोगस्त्वत्रैक एव, तत्र च एकवचनबहुवचनाभ्यामष्टौ भङ्गाः, सर्वेऽप्यमी षड्विंशतिः । अत्र स्थापना -
आनुपूर्वी १, अनानुपूर्वी १, अवक्तव्यक १, इत्येकवचनान्तास्त्रयः । आनुपूर्वी ३, अनानुपूर्वी ३, अवक्तव्यक ३, एते बहुवचनान्तास्त्रयः । आनुपूर्वी १, अनानुपूर्वी १ । 15 आनुपूर्वी १, अनानुपूर्वी ३। आनुपूर्वी ३, अनानुपूर्वी १ । आनुपूर्वी ३, अनानुपूर्वी ३ ।
इति प्रथमद्विकयोगे चतुर्भङ्गी। आनुपूर्वी १, अवक्तव्यक १।आनुपूर्वी १, अवक्तव्यक ३ । आनुपूर्वी ३, अवक्तव्यक १ । आनुपूर्वी ३, अवक्तव्यक ३ । इति द्वितीयद्विकयोगे चतुर्भङ्गी। अनानुपूर्वी १, अवक्तव्यक १ । अनानुपूर्वी १, अवक्तव्यक ३ । अनानुपूर्वी ३,
अवक्तव्यक १ । अनानुपूर्वी ३, अवक्तव्यक ३ । इति तृतीयद्विकयोगे चतुर्भङ्गी। आनुपूर्वी 20 १, अनानुपूर्वी १, अवक्तव्यक १ । आनुपूर्वी १, अनानुपूर्वी १, अवक्तव्यक ३ । आनुपूर्वी
१, अनानुपूर्वी ३, अवक्तव्यक १ । आनुपूर्वी १, अनानुपूर्वी ३, अवक्तव्यक ३ । आनुपूर्वी ३, अनानुपूर्वी १, अवक्तव्यक १ । आनुपूर्वी ३, अनानुपूर्वी १, अवक्तव्यक ३। आनुपूर्वी ३, अनानुपूर्वी ३, अवक्तव्यक १ । आनुपूर्वी ३, अनानुपूर्वी ३, अवक्तव्यक ३ । इति त्रिकयोगे अष्टौ भङ्गाः । इति सर्वेऽपि षड्विंशतिः । एते चोत्तरं प्रयच्छता अनेनैव क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org