SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १०६ 5 आवश्यकश्रुत[स्कन्धः] भावस्कन्धइति लभ्यते।अयमत्र भावार्थ:- सामायिकादीनां षण्णामध्ययनानां समावेशाद् ज्ञान-दर्शन-क्रियोपयोगवतो नोआगमतो भावस्कन्धः, नोशब्दस्य मिश्रवचनत्वात् क्रियाया अनागमत्वादिति।सेत्तमित्यादि निगमनम्। हे०६९-७१] अथ भावस्कन्धनिरूपणार्थमाह - से किं तमित्यादि। अत्रोत्तरम् - भावखंधेदुविहे इत्यादि।भावश्चासौ स्कन्धश्च भावमाश्रित्य वा स्कन्धोभावस्कन्धः, सच द्विविधः प्रज्ञप्तः, तद्यथा - आगमतश्च नोआगमतश्च, तत्रागमत: स्कन्धपदार्थज्ञस्तत्र चोपयुक्तस्तदुपयोगानन्यत्वाद् भावस्कन्धः । नोआगमतस्तु एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः । स च तेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव स्यादत उच्यते- समुदयस्य समिति: नैरन्तर्येण मीलना, साच 10 नैरन्तर्यावस्थापितायःशलाकानामिव परस्परनिरपेक्षाणामपि स्यादत उच्यते-तस्याः समुदयसमितेर्य: समागमः परस्परं सम्बद्धतया विशिष्टैकपरिणाम: समुदयसमितिसमागमस्तेन निष्पन्नो य आवश्यकश्रुतस्कन्धः स भावस्कन्ध इति लभ्यते प्राप्यते, भवति इति हृदयम्। इदमुक्तंभवति-सामायिकादिषडध्ययनसंहतिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवत्रिका-रजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भाव15 स्कन्धः, नोशब्दस्य देशे आगमनिषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः। सेत्तमित्यादि निगमनम्। तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयतिसेतं भावखंधे त्ति। [सू०७२] तस्सणं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति। तंजहा - गंण काय निकाय खंध वग्गरासी पुंजे य पिंड नियरे य। संघाय आकुल समूहभावखंधस्स पज्जाया॥५॥ सेतं खंधे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy