________________
अनुयोगद्वारसूत्रम् [सू० ४६-५१]
द्वीन्द्रियजीवादि वस्तु केवलज्ञानेनजानन्तीतिसर्वज्ञाः, तैः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनः, तैः,शाक्यानां त्वतीताद्यर्थ-ज्ञातृत्वेऽपिसर्वज्ञादित्वंनोपपद्यते कतिपयधर्माद्यभीष्टपदार्थवेत्तृत्वस्यैव तेष्वभ्युपगमात्, यत उक्तं तच्छिष्यैः
सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु ।
कीटसङ्ख्यापरिज्ञानंतत्र(स्य) न: क्वोपयुज्यते ?॥१॥ [प्रमाणवा०१।३३-३५] 5 इत्यादि। यथोक्तगुणविशिष्टा एव तिलुक्कचहियमहियेत्यादि, चहियत्ति विगलद्बहलानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिताः, यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेनभावस्तवेन महिता अभिष्टता:, सुगन्धिसुमन:प्रकरक्षेपादिना तु द्रव्यस्तवेन पूजिता:, तत एषां द्वन्द्वे त्रैलोक्येन भवनपति-व्यन्तर-नर-विद्याधर-वैमानिकादिसमुदायलक्षणेन चहितमहितपूजिता[स्त्रैलोक्यचहितमहितपूजिता]स्तैः, आह-ननूत्पन्नज्ञानदर्शनधरित्युक्तम्, उत्पत्तिमच्च 10 सप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानम्, उत्पन्ने च तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां ते सप्रतिघज्ञानिनः प्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्या- शङ्कयाऽऽहअप्रतिहतवरज्ञानदर्शनधरैरिति, समस्तावरणक्षयसम्भूतत्वादप्रतिहते मूर्तामूर्तेषु समस्तवस्तुष्वस्खलिते, अत एववरे प्रधाने केवलज्ञान-दर्शनलक्षणे ज्ञान-दर्शने धरन्ति येते तथा तैः, यत्त्ववध्यादेःसप्रतिघत्वं तन्नोत्पत्तिमत्त्वेन, किंतर्हि ? आवरणसद्भावात्, अतोऽप्रतिघे 15 केवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि सप्रतिघत्वाभ्युपगमे-ऽतिप्रसङ्गात्, इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र । तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि, अन्यथावाऽविरोधत:सुधिया व्याख्येयानि। तैरर्थकथनद्वारेण प्रणीतं प्ररूपितम्, किं तत् ? द्वादशाङ्गं श्रुतम्, परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि आचारादीनि यत्र तद् द्वादशाङ्गम्, किंभूतम् ? गणिपिटकम्, गुणगणोऽस्यास्तीति गणी 20 आचार्यः, तस्य पिटकंसर्वस्वंगणिपिटकंतद्यथा-आचारइत्यादिसुगमम्।अत्र द्वादशाङ्गश्रुतस्य चरणगुणसमन्वितस्य विवक्षितत्वानोआगमत्वं भावनीयम्, देशस्य चरणगुणलक्षणस्यानागमत्वान्नोशब्दस्य च देशप्रतिषेधत्वेनाश्रयणात्, एवं पूर्वत्रापि लौकिकभावश्रुते वाच्यम्। निगमयन्नाह-सेतं लोउत्तरियमित्यादि। एतद्भणने चसमर्थितं द्विविधमपि नोआगमतो भावश्रुतम्, अतस्तदपि निगमयति-से तं नोआगमतो इत्यादि। 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org