________________
अनुयोगद्वारसूत्रम् [सू० २१-२२]
सम्मज्जणं वोहरणं । आवरिसणं उदकेण । सेसं कंठं । कुप्पावयणदव्वावस्सतं गतं ।
से किं तं लोगुत्तरियं इत्यादि । जंघा फेणगादिणा घट्ठा। सरीरं केसा वा उदकादिणा मट्ठा कता । केसा सरीरं वा तेल्लेण तुप्पिता मक्खिता जेसिं ते तुप्पोट्ठा, तुप्पिता वा ओट्ठा सित्थकेण जेसिं ते तुप्पोट्ठा। सेसं कंठं । सद्धा-संवेगभावरहितत्तणतो एतं दव्वावस्सतं गतं ।
[ हा० २१-२२] से किं तमित्यादि, यदेते चरकादयः इन्द्रादेरुपलेपनादि कुर्वन्ति 5 तदेतत् कुप्रावचनिकं द्रव्यावश्यकमिति क्रिया । तत्र चरका: धाटिभिक्षाचराः । चीरिकाः रथ्यापतितचीरपरिधानाः, चीरोपकरणा इत्यन्ये । चर्मखण्डिकाः चर्मपरिधानाः, चर्मोपकरणा इति चान्ये। भिक्षोण्डा: भिक्षाभोजिनः, सुगतशासनस्था इत्यन्ये । पाण्डरङ्गाः भौताः । गौतमा: लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद्वृषभकोपायतः कणभिक्षाग्राहिणः । गोवृ (व्र ) तिका: गोश्चर्यानुकारिणः । उक्तं च
गावीहिं समं निग्गम पवेस ठाणाऽऽसणाइ य करेन्ति ।
६७
भुंजंति य जह गावी तिरिक्खवासं विभावेन्ता ॥१॥ [
1
गृहिधर्माः गृहस्थ[धर्म] एव श्रेयान् इत्यभिसन्धाय तद्यथोक्तकारिणः । [ धर्मचिन्तकाः] धर्मसंहितापरिज्ञानवन्तः सभासदः । अविरुद्धाः वैनयिकाः । उक्तं च
अविरुद्ध विणयकारी देवादीणं पराए भत्तीए ।
जह वेसियायणसुओ एवं अण्णे वि नायव्वा ॥ १ ॥ [
1
विरुद्धाः अक्रियावादिनः परलोकानभ्युपगमात् सर्ववादिभ्य एव विरुद्धा इति । वृद्धाः तापसाःप्रथमसमुत्पन्नत्वात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्तेः । श्रावकाः धिग्वर्णाः । अन्ये तु वृद्धश्रावका इति व्याचक्षते, धिग्वर्णा एव । प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः ।
पाषण्डस्था: ।
कल्लमित्यादि पूर्ववत् । इंदंसे (इंदस्स) वे त्यादि, इन्द्रः प्रतीतः । स्कन्दः कार्तिकेयः। रुद्रः प्रतीतः । शिवो महादेवः । वैश्रवणो यक्षनायकः । देवः सामान्यः । नागो भवनवासिभेदः । यक्षो व्यन्तरः । भूतः स एव । मुकुन्दो बलदेवः । आर्या प्रशान्तरूपा दुर्गा, कोट्टक्रिया सैव महिषाद्यारूढा । उपलेपन-सम्मार्जना-ऽऽमर्षण-धूप-पुष्प-गन्ध
Jain Education International
For Private & Personal Use Only
10
15
20
www.jainelibrary.org