SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १६ निषद्याद्वयं क्रियते, ततः प्राभातिककाले प्रवेदिते निषद्यानिषण्णस्य गुरोश्चोलपट्टक-रजोहरणमुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिकां प्रत्युपेक्षयतः, तया च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्त्वा वदति- ‘इच्छाकारेण संदिशत, स्वाध्यायं प्रस्थापयामि', ततश्च द्वावपि स्वाध्यायं प्रस्थापयत:, ततः प्रस्थापिते स्वाध्याये गुरुर्निषीदति, ततः शिष्यो द्वादशावर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्गं करोति, ततो गुरुर्निषीदति, ततस्तं शिष्यो द्वादशावर्त्तवन्दनकेन वन्दते, ततो गुरुरक्षानभिमन्त्रयोत्तिष्ठति, उत्थाय च निषद्यां पुरतः कृत्वा वामपार्श्वीकृतशिष्य श्चैत्यवन्दनं करोति, ततः समाप्ते चैत्यवन्दने पुनः गुरुरूर्ध्वस्थित एव नमस्कारपूर्वं नन्दिमुच्चारयति, तदन्ते चाभिधत्ते10 'अस्य साधोरनुयोगमनुजानामि, क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैरनुज्ञात:' । विनेयश्छोभवन्दनकेन वन्दते, उत्थितश्च ब्रवीति - 'संदिशत किं भणामि ? ' ततो गुरुराह'वन्दित्वा प्रवेदय', ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति- 'भवद्भिर्ममानुयोगोऽनुज्ञातः', इच्छाम्यनुशास्तिम्' । ततो गुरुर्वदति - 'सम्यग् धारय अन्येषां च प्रवेदय', अन्येषामपि व्याख्यानं कुर्व्वित्यर्थः । ततो वन्दतेऽसौ वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च 15 भवद्भिर्ममानुयोगोऽनुज्ञातः' इत्याद्युक्तिप्रत्युक्तिर्द्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरः स्थितश्च विनेयो वदति- 'युष्माकं प्रवेदितम्, सन्दिशत साधूनां प्रवेदयामि' इत्यादि, शेषमुद्देशविधिवद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं कायोत्सर्गं करोति, तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति, तदन्ते च वन्दते, पुनः प्रदक्षिणयति, एवं तिम्रो वारा:, ततो गुरोर्दक्षिणभुजासन्ने निषीदति, ततो गुरुपर पारम्पर्यागतानि मन्त्रपदानि गुरुः तिम्रो वाराः शिष्यस्य कथयति, तदनन्तरं यथोत्तरं प्रवर्द्धमानाः प्रवरगन्धमिश्रास्तिस्रोऽक्षमुष्टीस्तस्मै ददाति, ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य यथासन्निहितसाधुभिः सह तस्मै वन्दनकं ददाति, ततो विनेयो निषद्यास्थित एव नाणं पंचविहं पण्णत्तमित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यात उत्तिष्ठति, गुरुरेव पुनस्तत्र निषीदति, ततो 25 द्वावप्यनुयोगविसर्गार्थं कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्गं कुरुतः, ततः शिष्यो निरुद्धं 1 , 5 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy