________________
अनुयोगद्वारसूत्रम् [ सू० २ ]
नमस्कारः
एतानि च चतुर्थवन्दकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति । ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, निषण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति - ‘युष्माकं प्रवेदितम्, संदिशत, साधूनां प्रवेदयामि', ततो गुरुराह - 'प्रवेदय' इति, तत ‘इच्छामि’ इति भणित्वा विनेयो वन्दनकं ददाति ५ । प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिपुनर्वन्दनकं ददाति ६ । पुनरुत्थितो वदति ' युष्माकं प्रवेदितम्, साधूनां प्रवेदितम् 5 सन्दिशत करोमि कायोत्सर्गम्', ततो गुरुरनुजानीते- 'कुरु' इति, ततः पुनरपि वन्दनकं ददाति ७ । एतानि सप्त छोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते - 'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छ्वसितात्' इत्यादि यावद् 'व्युत्सृजामि' इति, तत: कायोत्सर्गस्थितः सप्तविंशतिमुच्छ्वासांश्चिन्तयति, सागरवरगम्भीरा इति यावच्चतुर्विंशतिस्तवं चिन्तयति इत्यर्थः, उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए [जीतक० 10 गा० २२] इति वचनात्, ततः पारितकायोत्सर्ग : संपूर्णं चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद् गुरो: छोभवन्दनकं ददाति, तच्च न श्रुतप्रत्ययम्, किं तर्हि ?, श्रुतदातृत्वादिना गुरुः परमोपकारीति तद्विनयप्रतिपत्तिनिमित्तमिति । अङ्गादिसमुद्देशेऽप्येवमेव विधिर्वक्तव्यः, नवरं पूर्व्वं प्रवेदिते 'योगं कुरु' इत्युक्तम्, अत्र तु 'स्थिरपरिचितं कुरु' इति वदति, योगोत्क्षेपकायोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेष: 15 सप्तवन्दनकादिको विधिस्तथैव । अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युद्देशविधिवद्वक्तव्यः, नवरं प्रवेदिते गुरुर्वदति - 'सम्यग् धारयान्येषां च प्रवेदय', अन्यानपि पाठयेत्यर्थः । आवश्यकादिषु तन्दुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकायोत्सर्गश्च न क्रियते, एवं सामायिकाद्यध्ययनेषूद्देशकेषु च चैत्यवन्दन-प्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनकप्रदानादिकः स एव विधिरिति 20 तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ताः समुपलभ्यन्ते, न च तथोपलभ्य सम्मोहः कर्त्तव्यः, विचित्रत्वात् सामाचारीणामिति ।
Jain Education International
१५
इदानीमनुयोगविधिरुच्यते - तत्रानुयोगो वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याचार्यपदस्थापनायोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधिः- प्रशस्तेषु तिथि-नक्षत्रकरण - मुहूर्त्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं प्रमार्ण्य एका गुरूणामेका त्वक्षाणामिति 25
For Private & Personal Use Only
-
www.jainelibrary.org