________________
अनुयोगद्वारसूत्रम् [ सू० २]
प्रक्रान्तत्वादिति।
[ हे० २] यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किम् ? इत्याह- तत्थेत्यादि, तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिका-ऽवधि-मन:पर्याय-केवलाख्यानि चत्वारि ज्ञानानि ठप्पाइं ति स्थाप्यानि असंव्यवहार्याणि, व्यवहारनयो हि यदेव लोकस्योपकारे वर्त्तते तदेव संव्यवहार्यं मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्ति-प्रवृत्तिद्वारेण प्राय: श्रुतमेव 5 साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः । यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किम् ? इत्याहठवणिजाइंति तत:स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देश-समुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनि प्रति- 10 पादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्व-परस्वरूपप्रतिपादने श्रुतमेव समर्थम्, स्वरूपकथनं चेदम्, अतः स्थाप्यानि अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किम् ? इत्याह-अनुपयो गित्वात् स्थापनीयानि अनधिकृतानि, यत्रैव ह्युद्देश-समुद्देशा-ऽनुज्ञा: क्रियन्ते तत्रैवानुयोगः तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वा- 15 दनुपयोगीनि शेषज्ञानानि इत्यतोऽत्रानधिकृतानि । अत्राह-अनुयोगो व्याख्यानम्, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वम् ?, ननु समयचर्यानभिज्ञतासूचकमेवेदं वचः, यतो हन्त तत्रापि तज्ज्ञानप्रतिपादक: सूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा स्थाप्यानि गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति- 20 अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नत्वाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानम्, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरणकर्मक्षय-क्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते । यतश्चैवमत आह - नो उद्दिस्संतीत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org