________________
अनुयोगद्वारसूत्रम् [ सू० १] याकिनीमहत्तरासून्वाचार्यश्रीहरिभद्रसूरिविरचिता अनुयोगद्वारविवृतिः ।
नमोऽर्हते। [हा० १] प्रणिपत्य जिनवरेन्द्रं त्रिदशेन्द्रनरेन्द्र-पूजितं वीरम् ।
अनुयोगद्वाराणां प्रकटार्थां विवृतिमभिधास्ये ॥१॥ प्रक्रान्तोऽयमर्हद्वचनानुयोगः, अयंच परमपदप्राप्तिहेतुत्वाच्छ्रेयोभूतोवर्तते, श्रेयांसि च बहुविघ्नानि भवन्ति, तथा चोक्तम् - श्रेयांसि बहुविघ्नानि भवन्ति [ ] इत्यादिश्लोकः । अतोऽस्य प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलाधिकारे नन्दिः 5 प्रतिपादितः, साम्प्रतमनुयोगद्वाराध्ययनमारभ्यते । अथास्याऽनुयोगद्वाराध्ययनस्य कोऽभिसम्बन्ध इति ?, उच्यते - इहार्हद्वचनानुयोगस्य प्रक्रान्तत्वात् तस्य चानुयोगद्वारमन्तरेण प्रतिपादयितुमशक्यत्वादनुयोगद्वाराणां च साकल्यतोऽपि प्रायः प्रत्यध्ययनमुपयोगित्वाद् नन्द्यध्ययनव्याख्यानसमनन्तरमेवाऽनुयोगद्वाराध्ययनावकाश इत्ययमभिसम्बन्धः, तत्रानेन सम्बन्धेनाऽऽयातमिदमनुयोगद्वाराध्ययनम्, अस्य. 10 .. चाध्ययनान्तरत्वात् साकल्यतोऽपिप्रायः सकलाध्ययनव्यापकत्वान्महार्थत्वाच्चाऽऽदावेव मङ्गलशब्दाभिधानपूर्वकमुपन्यासमुपदर्शयता ग्रन्थकारेणेदमभ्यधायि - णाणं पंचविहं पण्णत्तमित्यादि। अत्राह - इह मङ्गलाधिकारे नन्दिः प्रतिपादित एव, ततश्चानर्थक एव अस्य सूत्रस्योपन्यास इति, अत्रोच्यते-नैतदेवम्, अस्याऽऽक्षेपस्य [अस्य] चाध्ययनान्तरत्वात्' इत्यादिनैवानवकाशत्वात्, अनियमप्रदर्शनार्थत्वाच्च, तथाहि – 15 नायं नियमो नन्द्यध्ययनानुयोगमन्तरेणाऽस्यानुयोगो न कर्तव्य इति, यदा च क्रियते तदा सार्थक एव इति, यथोक्तोपन्यासुस्तु प्रायोवृत्त्यपेक्षयाऽनवद्य एव।। _ अन्ये तु व्याचक्षते - कञ्चिदार्यदेश-जाति-षत्रिंशद्गुणालंकृतः कश्चिद् विनेय: सविनयमुक्तवान् - भगवन् ! अनुयोगद्वारप्ररूपणया मे क्रियतामनुग्रहः । ततस्तमसावाचार्यो योग्यमधिगम्य अव्यवच्छित्तयेऽनुयोगद्वारप्ररूपणायां प्रवर्तमानो 20 विघ्नविनायकोपशान्तये भावमङ्गलाधिकारे इदमुपन्यस्तवान्-णाणमित्यादि, अस्य च सूत्रस्य समुदायार्थोऽवयवार्थश्च नन्द्यध्ययनटीकायां प्रपञ्चतः प्रतिपादित एवेति नेह प्रतिपाद्यत इति। १.हा० = हारिभद्री वृत्तिः । अत्रेदमवधेयम् - आचार्यश्री हरिभद्रसूरिविरचिताया अनुयोगद्वारसूत्रविवृतेः संशोधनं जे १, जे २, पा०इति आदर्शत्रयमवलम्ब्य विहितम् । जे १ = जेसलमेरमध्ये ७९ ग्रन्थाङ्के विद्यमानस्तालपत्रोपरि लिखित आदर्शः, पत्रसंख्या ६७
१६३। जे २ = तत्रैव डाभडानं०४ मध्ये ५२ ग्रन्थाङ्के विद्यमानः कागदपत्रोपरि लिखित आदर्श:। पत्रसंख्या१-३०। पा०= पाटणमध्ये . श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे डा० १७१ मध्ये ६७२६ ग्रन्धाङ्के विद्यमानः कागदपत्रोपरि लिखित आदर्शः। पत्रसंख्या १-५३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org