________________
प्रमाणफल-परीक्षा : ६७
विरोधात् । ततः पारमाथिकं प्रमाण फलं चेष्टसिद्धिलक्षणमभ्यनुज्ञातव्यम्, ततः सर्वपुरुषार्थसिद्धिविधानादिति संक्षेपः ।
इति प्रमाणस्य परीक्ष्य लक्षणं विशेषसंख्या-विषयं फलं ततः । प्रबुद्धय तत्त्वं दृढ-शुद्ध-दृष्टयः प्रयान्तु विद्याफलमिष्टमुच्चकैः ॥१॥
इति प्रमाणपरीक्षा समाप्ता।
1. पारमार्थिकप्रमाणं' मु। 2. स प्रती 'इति संक्षेपः' इति पाठानन्तरं निम्नांकितं पद्यमवलोक्यते
संसृत्य न्यायमार्ग सदसि सुविदुषां पक्षपातोज्झितानां, दक्षे सभ्याधिनाथे क्षतनिजपरताबुद्धिहृद्रागरोषे । निर्नेतु नो समर्थः कथमपि सुदृढं सर्वथैकान्तवादी,
स्वष्टं किंचित्प्रमाणं समधिगतिरतोऽस्यास्त्वनन्तात्मवादात् ॥ 3. 'इति श्रीस्याद्वादविद्यापतिश्री विद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता' मु । अब इ प्रतिषु तद्धिं पुष्पिकावाक्यं नोपलभ्यते । अस्माभिस्तु स प्रति-पाठो निक्षिप्त : ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org