________________
६६ : प्रमाण-परीक्षायां
,
नित्यस्य वा तद्विरोधसिद्धेः । प्रसिद्ध च सामान्यविशेषात्मनि वस्तुनि तदंशमात्रे विशेषे सामान्ये वा प्रवर्त्तमानं कथं प्रमाणं नाम, प्रमाणस्य यथावस्थित वस्तुग्रहणलक्षणत्वात् तदेकदेशग्राहिणः सापेक्षस्य सुनयत्वानिरपेक्षस्य दुर्णयत्वात् । तत एव न तद्विषयेणानेकान्तः साधनस्य स्यात्, तत्र प्रमाणविषयत्वस्य हेतोरप्रवृत्तेः । अतः सिद्धो द्रव्यपर्यायात्माऽर्थः प्रमाणस्येति तद्विप्रतिपत्तिनिवृत्तिः ।
[ विषयविप्रतिपत्ति निराकृत्येदानीं फलविप्रतिपत्ति निरस्यति ] $ १७८. फलविप्रतिपत्तिनिवृत्त्यर्थं प्रतिपाद्यते ।
$ १७९. प्रमाणात्फलं कथंचिद्भिन्नमभिन्नं च प्रमाणफलत्वानुपपत्तेः । हानोपादानोपेक्षा बुद्धिरूपेणानेकान्त इति न शंकनीयम्; तस्याप्येक प्रमात्रात्मना प्रमाणादभेदसिद्ध:, प्रमाणपरिणतस्यैवात्मनः फलपरिणामप्रतीतेः, अन्यथा सन्तानान्तरवत् प्रमाणफलभावविरोधात् । साक्षादज्ञाननिवृत्तिलक्षणेन प्रमाणादभिन्नेन प्रमाणफलेन व्यभिचार इत्यप्यपरीक्षिताभिधानम्, तस्यापि कथंचिद्भेदप्रसिद्धेः, प्रमाणफलयोः साधनभेदात् । करणसाघनं हि प्रमाणम्, स्वार्थनिर्णीतौ साधकतमत्वात् । स्वार्थनिर्णोतिरज्ञाननिवृत्तिः फलं भावसाधनम्, तत्साध्यत्वात् । एतेन कर्तृसाधनात्प्रमाणात्कथंचिद्भेद: प्रतिपादितः, स्वार्थनिर्णीतौ स्वतन्त्रत्वात् । स्वतन्त्रस्य च कर्तृत्वात्, स्वार्थनिर्णीतेस्तु अज्ञाननिवृत्तिस्वभावायाः क्रियात्वात् । न च क्रिया क्रियावतोsर्थान्तरमेवानर्थान्तरमेव वा, क्रियाक्रियावद्भावविरोधात् । भावसाधनात्प्रमाणादज्ञाननिवृत्तिरभिन्नं वेत्ययुक्तम्, प्रमातुरुदासीनावस्थायाम
व्याप्रियमाणस्य प्रमाणशक्तेर्भावसाधनप्रमाणस्य व्यवस्थापितत्वात्, तस्याज्ञाननिवृत्तिफलत्वासम्भवात् । स्वार्थव्यवसितौ व्याप्रियमाणं हि प्रमाणमज्ञाननिवृत्ति साधयेत्, नान्यथा, अतिप्रसंगात् । ततः सूक्तम्
' प्रमाणात्कथंचिद्भिन्नाभिन्नं फलम्' इति ।
$ १८० ततस्तस्य सर्वथा भेदे बाधकवचनात्, अभेदवत् । संवृत्या प्रमाणफलव्यवहार इत्यप्रातीतिकं वचनम्, परमार्थतः स्वष्टसिद्धि
1. 'नित्यस्य च ' मु अ इ । 2. 'प्रमाणरूपेण परिणत-' ब । 3 ' प्रमाणादभिन्नेन' नास्ति अ । 4. 'प्रमाणफलयोनिरुक्तिसाधनविरोधात् ' मु । '.... प्रातीतिकवचनम्' मु ।
5.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org