________________
॥ मङ्गलाचरणम् ||
नत्वा श्रीपार्श्वनाथं, प्रणतसुरगणं, नष्टमोहारिवृन्दम् । संज्ञातद्रव्यसार्थं, सममलवचनं वीतरागत्वशोभम् ॥ पञ्चत्रिंशद्गुणौघैः हितवचनकर, सर्वतो सुप्रसिद्धम् । पद्मावत्या च भक्त्या, सुरकरकमलैः पूजितं धैर्ययुक्तम् ॥१॥ प्रणम्य वचनातीतं, त्यक्तदोषं जिनेश्वरम् । वागीशं, सर्वभावज्ञं, विश्ववासववन्दितम् ॥२॥ सुधर्मादिगणेशाना-मात्मार्थिनां महात्मनाम् । विविधशास्त्रकर्तृणां, वन्दित्वा पादपङ्कजम् ॥ ३ ॥ स्तौमि वागीश्वरी देवी, पवित्रां हंसवाहिनीम् । वीणापाणिं सुवक्त्राब्जां, ग्रन्थसमाप्तिहेतवे ॥४॥ यस्याः कृपासुधावृष्ट्या, शास्त्रान्तं यान्ति साक्षराः । सा हि मयि प्रसन्नाऽस्तु ग्रन्थारम्भे सरस्वती ॥५॥ स्मृत्वा वाग्देवताख्यं, कमलगणकरं, पुस्तकव्यग्रहस्तम् । यद्वात्सल्यप्रसादात्, तनुमतिरपि ना, शास्त्रपारं गतस्तम् ॥ प्रारप्स्ये द्रव्यरासं, चतुरनृसुखदं, भाषितं तीर्थनाथै - स्तद्ग्रन्थार्थः प्रपाठ्यो, विविधनयमयो, धैर्यमद्भिश्चकोरैः ॥६॥ विवेचनमिदं दृब्धं, मृदुगुर्जरभाषया । टीकाग्रन्थानुसारेण, बालानां सुखहेतवे ॥७॥ श्रीद्रव्यगुणपर्याय-रासस्त्वतिमहार्थकः । सूक्ष्मधिया तथेक्ष्योऽयं तत्त्वप्राप्तिर्भवेद् यथा ॥८॥ चतुर्विधानुयोगेषु सर्वश्रेष्ठो मतो ह्ययम् । यदभ्यासे विलनानां, विकारा न स्फुरन्ति यत् ॥९॥ आगमतोयराशेस्तूद्धृत्य योऽसौ महात्मना । श्रीयशोविजयाख्येन, द्रव्यानुयोगरागिणा ॥१०॥ रचितोऽयं महाग्रन्थः परोपकारहेतवे । सः प्रसिद्धिं हि प्राप्नोतु, यावच्चन्द्रदिवाकरौ ॥११ ॥ अत्युपयोगपूर्वेण कृतमिदं विवेचनम् । तथापि क्षतिसम्भूति स्स्याच्छद्मस्था यतो वयम् ॥१२ ॥ क्षाम्यन्तु तां क्षतिं सर्वां, धैर्यधना महाजनाः ।। स्वभावोऽस्ति यतस्तेषां, जन्मत एव हीदृशः ॥ १३ ॥