________________
मङ्गलाचरणम्
।
स्तौमि सर्वज्ञवामेयं, शङ्केश्वरविराजितम् । अश्वसेनकुले जातं, पद्मावतीसुसेवितम् ॥१॥ उत्तमयोगसाम्राज्यं, प्राप्यावयं बुधैरपि । पवित्रं जीवनं यस्य, जगदाश्चर्यकारकम् ॥२॥ यस्य योगप्रभावेण, गाढं वैरं हि नश्यति । वैरिणां जन्मजातानां, घनं सूर्यात्तमो यथा ॥३॥ कनकासनभापुञ्ज-च्छत्रचामरवानपि । अलिप्तोऽयं महायोगी, सेव्यमानोऽमरैरपि ॥४॥ महोपसर्गकर्ताऽयं, प्रनष्टो मेघमाल्यपि । ईदृशं योगमाहात्म्यं, को हि वर्णयितुं क्षमः ॥५॥ मोक्षेण योजनाद् योगश्चित्रा सा मोहमन्दता । आत्मनोऽध्यवसायोऽयं, दृष्टिभेदेन चाष्टधा ॥६॥ मिथ्यादृष्टिगुणस्थानात्स्थानं यावच्चतुर्दशम् । उत्तमात्मविकासोऽयमूर्ध्वारोहेण दर्शितः ॥७॥ दृष्टिरेव प्रधानात्र, संसारमुक्तिहेतवे । प्रथमौघा परा योगा, हेयोपादेयभाविनी ॥ ८॥ अनादिमोहमालिन्यं, योगाभावे न नश्यति । तीव्रत्वाद् दीपलक्षैर्हि, सूर्यनाश्यं तमो यथा ॥ ९॥ योगो महौषधिख्यातो, योगो हि परमामृतम् । योगो दुःखक्षयायालं, योगश्च मुक्तिसाधनम् ॥१०॥ तत्प्राप्त्यै कृतयत्ना हि, धैर्यधनामहाजनाः। योगाभिलाषमात्रेण, भवात्तरन्त्यसंशयम् ॥११ ।। शास्त्रोदधेरसौ नीतः, श्रीहरिभद्रसूरिभिः । अल्पाक्षरमहार्थत्वात्, दुर्बोध्यः कोविदैरपि ॥ १२॥ संस्कृतप्राकृताख्यानां, भाषाणां लुप्तभावतः । कालदोषेण तस्यार्थः, कर्तव्यो मातृभाषया ॥१३॥ योगाध्ययनरागेण, स्वकर्मक्षयहेतवे । प्रारब्धोऽयं महायासो, प्रसन्नास्तु सरस्वती ॥ १४॥ क्व चाल्पविषया मे धीः, हरिभद्रेश्च वाक् क्व च । तथापि भक्तिरागेण, समाप्तौ मे न संशयः ॥१५॥ श्रीयोगविंशिकायोगशतका) विवेच्य तु । प्रारप्स्येऽहं महाग्रन्थं, योगदृष्टिसमुच्चयम् ॥ १६॥ तुष्यन्तु सज्जनास्तत्र, परमार्थाभिलाषिणः । स्वपरेभ्यो हितायायं, भवितात्र न संशयः ॥१७॥ स्खलीभूतं यदत्र स्यात्, छद्मस्थत्वप्रमादतः । अनुपयोगभावेन, तच्छोध्यं च सुबुद्धिभिः ॥ १८॥
-ધીરજલાલ ડાહ્યાલાલ મહેતા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org