________________
३६५
पृ. १४०. पं. २५. ]
हेतुबिन्दुटीकालोकः । बाहुल्येनेति विवृण्वन् प्रायः[१३७.२८]शब्दं निपातं दर्शयति बाहुल्येनेत्यस्यार्थे वर्तमानम् । 'अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस्तेनाक्षणिकस्यापि भविष्यति तत्कथमेवं विभज्यत इति आह तत्सम्भविन[१३८.२] इति । .
स्वभावान्तरोत्पत्तिरपि विरुद्धा कस्मात्कल्प्यत इत्याह प्रागकारकस्ये[१३८.३]ति। 5 कथं न विरुध्यत इत्याह तस्यैव ही[१३८.४]ति । तर्हि पूर्वस्वभावस्य कथमु(म). 'पनय इत्याह-तत्रे १३८.६]ति ।
'तत्स्वभावतैब । किमिती १३८.१५]ति निपातानिपातसमुदायः कस्मादित्यस्यार्थे वर्तते । मुधे१३८.१५]त्ययमपि निपातो वृ?त्यस्यार्थे ।
10 तानि[१३८.१५] प्रत्ययान्तराणि ।
सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्नाह तदेवमि[१३८.१७]ति । अनेकान्तपरिहारायोक्तमस्ये(क्तस्य)[१३८.२०]ति : तत्स्वभावस्य जननादित्यस्य प्रसंगात्प्रस्तावादागतं प्रासंगिकं [१३८.२३] कार्य यथेष्टम् अविनाशं हेतु(ष्टम् विनाशहेतु)नैव निवृत्तिः क्रियत इत्याह विनाशहेतो[१३९.२७] 15 रिति । मुद्रादेः [१३९.२८] सकाशात् , वस्त्वन्तरस्य[१३९.२९] प्रध्वंसलक्षणस्य भावे ।
व्यवस्थितरूपस्य [१४०.५] प्राच्येनैव रूपेण वर्तमानस्य ।
ननु यदि स्वरसनिरुद्धात्ताम्रादेरुपादानकारणाद्वयादेश्च सहकारि[52b] कारणाद् अन्यस्यैव द्रवादिरूपस्य ताम्रादेरुत्पत्तिरिहाचार्येणोपगम्यते-तर्हि प्रमाणवार्तिकेऽनेनैव 20 यदवादि
“सहकारात्सहस्थानाशंका अमिताम्र(स्थानमग्निताम्र)द्रवत्ववत् " (प्रमाणवा ० १.६४) इति तद्विरुध्येत । शक्यते हि तत्रापीदं वक्तुमुपादानात्तस्मात् तस्माच्च सहकारिकारणादन्यदेव तत्तधोत्पन्नम्। न त्वमिस्तानद्रवत्वं सह तिष्ठत इति चेत् । सत्यम्, यथाश्रुतिः स्याद्विरोधो यथा त्वविरोधस्तथास्माभिर्विशेषाख्याने ख्यापितमिति तत एवानुगन्तव्यमिति। 25 १. इदं ' असौ ' (१३८.१५ ) इत्यस्य अर्थकथनं भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org