________________
जैनतर्कभाषा ।
[ १५. अनुमानं द्वेधा विभज्य स्वार्थानुमानस्य लक्षणम् । ]
६३४. साधनात्साध्य विज्ञानम् - अनुमानम् । तद् द्विविधं स्वार्थ परार्थ चे । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहण सम्बन्धस्मरणयोः समुदितयोरेव कारण5 त्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्यागृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् ।
१२
[ १६. हेतुस्वरूपचर्चा । ]
३५. निश्चितान्यथानुपपच्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः ४ । तथाहित्रिलक्षण एव हेतुरिति बौद्धाः । पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सवा10 भावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसवनियमाभावे चानैकान्तिकत्वनिषेधस्यासम्भवेनानुमित्यप्रतिरोधानुपपत्तेरिति तन्नः पक्षधर्मत्वाभावेऽपि उदेष्यति शकटं कृत्तिकोदयाद, उपरि सविता भूमेरालोकवाद्, अस्ति नभश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमस्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्; अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्म15 त्वोपपादने जगद्धर्म्यपेक्षया काककायेन प्रासादधावल्यस्यापि साधनोपपत्तेः ।
९३६, ननु यद्येवं पक्षधर्मताऽनुमितौ नाङ्गं तदा कथं तत्र पक्षभाननियम इति चेत्; क्वचिदन्यथाऽनुपपच्यवच्छेदकतया ग्रहणात् पक्षभानं यथा नमश्चन्द्रास्तित्वं विना जलचन्द्रो ऽनुपपन्न इत्यत्र, कचिच्च हेतुग्रहणाधिकरणतया यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद्वद्देरपि तत्र भानमिति । व्याप्तिग्रह वेलायां तु 20 पर्वतस्य सर्वत्रानुवृन्यभावेन न ग्रह इति ।
$ ३७. यत्तु अन्तर्व्याप्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गमानम्, तदुक्तम् - "पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्यासि:" (प्र.न. ३.३८) इति; तन्; अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां वहिर्व्याप्तेरुद्भावनव्यर्थत्वं प्रतिपादनेन तस्याः स्वरूपप्रयुक्त (क्ताऽ) व्यभिचारलक्षण25 त्वस्य बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाभात्, सार्वत्रिक्या व्याप्तेर्विषयभेदमात्रेण भेदस्य दुर्वचत्वात् । न चेदेवं तदान्तर्व्याप्तिग्रहकाले एष एवं (काल एव ) पक्षसाध्यसंसर्गभानादनुमानवैक (फ)ल्यापत्तिः विना पर्वतो वह्निमानित्युद्देश्य प्रतीतिमिति यथातन्त्रं भाव
१ प्र.मी. १. २. ७ । २ तुलना प्र. न. ३. ९० । ३ प्र. न. ३. १०.। ४ प्र. न. ३. १११२ । ५-० भावे वानै० सं० । ६ तत्रान्तर्व्या० सं० प्र० मु० । ७ तुलना- प्र. न. ३. ३७ । ८-० काल एव च पक्ष०-मु० । & "विना पर्वतो वह्निमानित्युद्देश्यप्रतीतिम्” इत्यप्रेतनः पाठः सङ्गतार्थकतया अव सूपपादः ॥ तथा च तदान्तर्व्याप्तिग्रहकाल एव पर्वतो वह्निमानित्युद्देश्यप्रतीतिं विना पक्षसाध्यसंसर्गभानादसुमानवैफल्यापत्तिरित्यादिरर्थः सम्पद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org