________________
१. प्रमाणपरिच्छेदः । तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तौ सामान्यलक्षणप्रत्यासत्तिकल्पने प्रमाणाभावात् , ऊहं विना ज्ञातेन सामान्येनापि सकलव्यक्त्यनुपस्थितेश्च । वाच्यवाचकमावोऽपि तर्केणैवावगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्तमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य तत्कारणज्ञानजनकतां शब्दे. ऽवधारयन्तो(यतो)ऽन्त्यावयवश्रवण-पूर्वावयवस्मरणोपजनितवर्णपदवाक्यविषयसङ्कलना- 5 स्मकप्रत्यभिज्ञानवत आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकभावप्रतीतिदर्शनादिति । अयं च तर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात्सम्बन्धप्रतीति जनयतीति नानवस्था ।
६३२. प्रत्यक्षपृष्ठभाविविकल्परूपत्वान्नायं प्रमाणमिति बौद्धाः; तन्नः प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि प्रत्यक्षगृहीतमात्राध्यवसायित्वेन सर्वोपसंहारेण व्याप्तिग्राहकत्वा- 10 भावात। तादृशस्य तस्य सामान्यविषयस्याप्यनुमानवत् प्रमाणत्वात् , अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामाण्यप्रसिद्धेः । यस्तु-अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्यानुपलम्भ एकः, तदनन्तरममेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयम् , पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपश्चकाद्वयाप्तिग्रहः-इत्येतेषां सिद्धान्तः, तदुक्तम्
15 "धूमाधीर्वहिविज्ञानं धूमज्ञानमधीस्तयोः ।
प्रत्यक्षानुपलम्भाभ्यामिति पश्चभिरन्वयः॥" इति; स तु मिथ्या; उपलम्भानुपलम्भस्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सनिहितमात्रविषयतयाऽविचारकतया च देशादिव्यवहितसमस्तपदार्थगोचरत्वायोगात् ।
६३३. यत्तु 'व्याप्यस्याहार्यारोपेण व्यापकस्याहार्यप्रसञ्जनं तर्कः । स च विशेष- 20 दर्शनवद् विरोधिशङ्काकालीनप्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव वा । न चायं स्वतः प्रमाणम्' इति नैयायिकैरिष्यते; तन्नः व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात् , पराभिमततर्कस्यापि क्वचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काविघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् । इत्थं चाज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तन(तत्र) 25 मिथ्याज्ञानरूपे व्यवच्छेद्ये सङ्गच्छते, ज्ञानाभावनिवृत्तिस्त्वर्थातताव्यवहारनिबन्धन. स्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम् ।
१-०ज्ञानवत् भावा-मु.। २-०तया चोपयो०-प्र. मु.। ३ धर्मभूषणेम हि श्लोकवार्तिकीयवाक्योलन स्वमतं समर्थितम् , तथाहि-"तदुक्तं श्लोकवार्तिकभाष्ये-'साध्यसाधनसम्बन्धाज्ञाननिवत्तिरूपे हि फले साधकतमस्तर्कः' इति ।" [न्यायदी• पृ० १९]। द्रष्टव्यं चैतत् तत्त्वार्थश्लोकवा. १. १३. ११५-८ वृत्तौ। धर्मभूषणोक्तं तत्र सत्येव मिथ्याज्ञाने व्यवच्छेद्ये सङ्गच्छते ज्ञानरूपे। ज्ञानाभाव.-मु.। ४-०ज्ञानता०-मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org