________________
६
जैनतर्कभाषा। या च घटायुपयोगोपरमे सङ्खथेयमसङ्ख्थेयं वा कालं वासनाऽभ्युपगम्यते, या च तदेव' इतिलक्षणा स्मृतिः सा मत्यंशरूपा धारणा न भवति मत्युपयोगस्य प्रागेवोपरतत्वात् , कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां, धारणायां स्मृत्यन्तर्भावादिति चेत्, न; __ अपायप्रवृत्यनन्तरं क्वचिदन्तर्मुहूर्त यावदपायधाराप्रवृत्तिदर्शनात् अविच्युतेः, पूर्वापर5 दर्शनानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्राच्यापायपरिणामस्म, तदाधायकसंस्कारलक्षणाया वासनायाश्च अपायाभ्यधिकत्वात् ।
६१६. नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान प्रमाणम् ; संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वेति त्रयी
गतिः १ तत्र-आद्यपक्षद्वयमयुक्तम् ; ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्यत्वात् । 10 तृतीयपक्षोऽप्ययुक्त एव; सङ्ख्येयमसङ्खयेयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च
कालं वस्तुविकल्पायोगादिति न कापि धारणा घटत इति चेत्, न; स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मकवासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः प्रागननुभृतवस्त्वेकस्वग्राहित्वाच स्मृतेः अगृहीतग्राहित्वात् , स्मृतिज्ञानावरणकर्मक्षयोपशमरूपायास्तद्विज्ञान
जननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदा15 भिधानाविरोधादिति ।।
६१७. एते चावग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनन्वेन चोत्पद्यन्ते, ज्ञेयस्येस्थमेव ज्ञानजननस्वाभाव्यात् । क्वचिदभ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृति मात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्यतिभेद इव सौक्षम्यादवग्रहादिक्रमानुपलक्षणात् ।
तदेवम् अर्थावग्रहादयो मनइन्द्रियैः षोढा भिद्यमाना व्यञ्जनावग्रहचतुर्मेदैः सहाष्टाविं. 20 शतिर्मतिभेदा भवन्ति । अथवा बहु-बहुविध-क्षिप्रा-ऽनिश्रित-निश्चित-ध्रुधैः सप्रतिपक्षा
दशभिर्भेदैभिन्नानामेतेषां पत्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्वादयश्च भेदा विषयापेक्षाः; तथाहि-कश्चित् नानाशब्दसमूहमाकर्णितं बहुं जानाति-'एतावन्तोत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दाः' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिनत्तीत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोप25 शमवैचिच्यात् बहुविधम् , एकैकस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेना
प्याकलनात् । परस्त्वबहुविधम् , स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रम् , शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम् , चिरविमर्शनाकलनात् । परस्त्वनिश्रितम् , लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम् , लिङ्गनिश्रयाऽऽकलनात् ।
[ कश्चित्तु निश्चितम् , विरुद्धधर्मानालिङ्गितत्वेनावगतेः । इतरस्त्वनिश्चितम् , विरुद्धधर्मा30 ङ्किततयावगमात् । ] अन्यो ध्रुवम् , बह्वादिरूपेणावगतस्य सर्वदैव तथा बोधात् । अन्य
स्त्वध्रुवम् , कदाचिद्बह्वादिरूपेण कदाचित्त्वबह्वादिरूपेणावगमादिति । उक्ता मतिभेदाः।
१ तुलना-प्र. न. २. १४ । २ बहु जा०-५० व०। ३-बहु अ०-५०। ४ अयं पाठः को के एव पूर्व मुद्रितः । स च अन्यत्र क्वापि प्रतावसनपि औचित्यवशात् तथैवान गृहीतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org