________________
१. प्रमाणपरिच्छेदः । न्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिः'-इति; तदसत्; यत आलोचनं व्यञ्जनावग्रहात् पूर्व स्यात्, पश्चाद्वा, स एव वा ? नाद्यः; अर्थव्यञ्जनसम्बन्धं विना तदयोगात् । न द्वितीयः; व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः; व्यञ्जनावग्रहस्यैव नामान्तरकरणात् , तस्य चार्थशून्यत्वेनालोचनानुपपत्तेः । किञ्च, आलोचनेनेहां विना झटित्येवावग्रहः कथं 5 जन्यताम् ? युगपञ्चेहावग्रहो पृथगसङ्खयेयसमयमानौ कथं घटेताम् ? इति विचारणीयम् । नन्ववाहेऽपि क्षिप्रेतरादिभेदप्रदर्शनादसङ्ख्यसमयमानत्वम् , विशेषविषयत्वं चाविरुद्धमिति चेत् न तत्त्वतस्तेषामपाय भेदत्वात् , कारणे कार्योपचारमाश्रित्यावग्रहभेदत्वप्रतिपादनात् , अविशेषविषये विशेषविषयत्वस्यावास्तवत्वात् ।
११. अथवा अवग्रहो द्विविधः-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामा- 10 न्यमात्रग्राही, द्वितीयश्च विशेषविषयः तदुत्तरमुत्तरोत्तरधर्माकासारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं विनेहानुत्थानप्रसङ्गात् अत्रैव क्षिप्रेतरादिभेदसङ्गतिः, अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् ।
[७. ईहावायधारणानां क्रमशो निरूपणम्। ] १२. अवगृहीतविशेषाकाङ्क्षणम्-ईहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्म- 15 घटनप्रवृत्तो बोध इति यावत्, यथा-'श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्' 'मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना' वा इति । न चेयं संशय एव; तस्यैकत्र धर्मिणि विरुद्धनानार्थज्ञानरूपत्वात् , अस्याश्च निश्चयाभिमुखत्वेन विलक्षणत्वात् । ।
१३. ईहितस्य विशेषनिर्णयोऽवार्यः, यथा-'शब्द एवायम्', 'शाल एवायम्' इति वा।
20 १४. स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधा-अविच्युतिः, स्मृतिः, वासना च । तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः । तस्यैवार्थोपयोगस्य कालान्तरे 'तदेव' इत्युल्लेखेन समुन्मीलनं स्मृतिः । अपायाहितः स्मृतिहेतुः संस्कारो वासना। द्वयोरवग्रहयोरवर्ग्रहत्वेन च तिसृणां धारणानां धारणात्वेनोपग्रहान्न विभागव्याघातः ।
६१५. केचित्तु-अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिणः- 25 'असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा'-इत्याहुः; तन्नः क्वचित्तदन्यव्यतिरेकपरामर्शात्, क्वचिदन्वयधर्मसमनुगमात् , क्वचिच्चोभाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण भेदाभावात् , अन्यथा स्मृतेराधिक्येन मतेः पञ्चमेदस्वप्रसङ्गात् । अथ नास्त्येव भवदभिमता धारणेति भेदचतुष्टया(य)व्याघातः; तथाहिउपयोगोपरमे का नाम धारणा ? उपयोगसातत्यलक्षणा अविच्युतिश्चापायानातिरिच्यते । 30
प्र. मी. १. १. २७॥ २ तुलना प्र. न. २. ९। ३ प्र. न. २. १०। ४-०रवग्रहत्वेन तिसृणां च धारणानाम्-इति पाठः सम्यग् भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org