________________
सांव्यवहारिकप्रत्यक्षम् । प्रमाणमीमांसा। .. सानि, भावेन्द्रियाणि पुनस्तदावरणवीर्यान्तरायक्षयोपशमनिमित्तानि । सैषा पञ्चसूत्री स्पर्शग्रहणलक्षणं स्पर्शनेन्द्रियं, रसग्रहणलक्षणं रसनेन्द्रियमित्यादि । सकलसंसारिषु भावाच्छरीरव्यापकत्वाच्च स्पर्शनस्य पूर्व निर्देशः, ततः क्रमेणाल्पाल्पजीवविषयत्वाद्रसनघ्राणचक्षुःश्रोत्राणाम् ।
६.७८. तत्र स्पर्शनेन्द्रियं तदावरणक्षयोपशमसम्भवं पृथिव्यप्तेजोवायुवनस्पतीनां 5 शेषेन्द्रियावरणवतां स्थावराणां जीवानाम् । तेषां च "पुढवी चित्तमन्तमक्खाया" [ दशवै० ४.१ ] इत्यादेराप्तागमासिद्धिः। अनुमानाच-ज्ञानं क्वचिदात्मनि परमापकर्षवत् । अपकृष्यमाणविशेषत्वात् परिमाणवत् , यत्र तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः। न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादिषु ज्ञानस्यापकर्षों युक्तः। तत्र हि ज्ञानस्याभाव एव न पुनरपकर्षस्ततो यथा गगनपरिमाणादारभ्यापकृष्यमाणविशेष परिमाणं परमाणौ 10 परमापकर्षवत् तथा ज्ञानमपि केवलज्ञानादारभ्यापकृष्यमाणविशेषमेकेन्द्रियेष्वत्यन्तमपकृष्यते । पृथिव्यादीनां च प्रत्येकं जीवत्वसिद्धिरने वक्ष्यते । स्पर्शनरसनेन्द्रिये कृमिअपादिका-नूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलूकाप्रभृतीनां सानाम् । स्पर्शनरसन-घ्राणानि पिपीलका-रोहणिका-उपचिका-कुन्थु-तुबरेक-त्रपुंस-बीज-कासास्थिका-शतपदी-अयेनक-तृणपत्र-काष्ठहारकादीनाम् । स्पर्शन-रसन-घ्राण-चढूंषि भ्रमर-वटेर-सारङ्ग- 15 मक्षिका-पुत्तिका-दंश-मशक-वृश्चिक-नन्द्यावर्त्त-कीटक-पतङ्गादीनाम् । सह श्रोत्रेण तानि मत्स्य-उरग-भुजग-पक्षि-चतुष्पदानां तिर्यग्योनिजानां सर्वेषां च नारकमनुष्यदेवानामिति ।
७९. ननु वचनादानविहरणोत्सर्गानन्दहेतवो वाक्पाणिपादपायूपस्थलक्षणान्यपीन्द्रियाणीति साङ्ख्यास्तत्कथं पश्चैवेन्द्रियाणि ? ; न; ज्ञानविशेषहेतूंनामेवेहेन्द्रियत्वेनाधिकृतत्वात्, चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पनायामिन्द्रियानन्त्यप्रसङ्गः, चेष्टावि- 20 शेषाणामनन्तत्वात् , तस्माध्यक्तिनिर्देशात् पश्चैवेन्द्रियाणि ।
६८०. तेषां च परस्परं स्यादभेदो द्रव्यार्थादेशात् , स्याद्भेदः पर्यायार्थादेशात् , अभेदैकान्ते हि स्पर्शनेन स्पर्शस्येव रसादेरपि ग्रहणप्रसङ्गः। तथाचेन्द्रियान्तरकल्पना वैयर्थ्यम् , कस्यचित् साकल्ये वैकल्ये वान्येषां साकल्यवैकल्यप्रसङ्गश्च । भेदैकान्तेऽपि तेषामेकंत्र सकल(सङ्कलन)ज्ञानजनकत्वाभावप्रसङ्गः सन्तानान्तरेन्द्रियवत् । मनस्तस्य जनक- 25 मिति चेत् । न तस्येन्द्रियनिरपेक्षस्य तजनकत्वाभावात् । इन्द्रियापेक्ष मनोऽनुसन्धानस्य जनकमिति चेत् सन्तानान्तरेन्द्रियापेक्षस्य कुतो न जनकत्वमिति वाच्यम् । प्रत्यासत्तेरभावादिति चेत्, अत्र का प्रत्यासत्तिरन्यत्रैकद्रव्यतादात्म्यात् ?, प्रत्यासत्त्यन्तरस्य च
१ रोहिणिकाचिका-डे । २ तुबरका.-ता० । तुंबुरक-मुः। ३ त्रिपुस-डे । ४ बीजकका.ता०। ५ वठर-डे । ६ पुस्तित्रिका-डे । पुस्तिका-मु०।७ हेतूनि वाक्-डे । ८-०हेतूनामेवेन्द्रि०-ता। ९-०भेदात्-डे०। १० "तेषामेकत्वसङ्कलनज्ञानजनकत्वाभावप्रसङ्गात्"-तत्त्वार्थश्लोकवा० पृ. ३२७ । ११-०स्य व्य०-ता.... .. . .. . . .।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org