________________
.
१८
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० २२-२५. व्यभिचारादिति । एतेन तेषामात्मना भेदाभेदैकान्तौ प्रतिव्यूढौ । आत्मना करणानामभेदैकान्ते कर्तृत्वप्रसङ्गः, आत्मनो वा करणत्वप्रसङ्गः, उभयोरुभयात्मकत्वप्रसङ्गो वा, विशेषाभावात् । ततस्तेषां भेदैकान्ते चात्मनः करणत्वाभावः सन्तानान्तरकरणवद्विपर्ययो
वेति प्रतीतिसिद्धत्वादाधकाभावाच्चानेकान्त एवाश्रयणीयः। 5 . ६८१. द्रव्येन्द्रियाणामपि परस्परं स्वारम्भकपुद्गलद्रव्येभ्यश्च भेदाभेदद्वारानेकान्त एव युक्तः, पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्थादेशाच्च भेदस्योपपधमानत्वात् ।
- ६८२. एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्वमवसेयम् , तथैव निर्बाधमुपलब्धेः। तथा च न द्रव्यमानं पर्यायमानं वेन्द्रियविषय इति
स्पोदीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ॥ २१ ॥ 10 ६८३. 'द्रव्यभावभेदानि' इत्युक्तं तानि क्रमेण लक्षयति
. द्रव्येन्द्रियं नियताकाराः पुद्गलाः ॥२२॥ 5 ८४. 'द्रव्येन्द्रियम्' इत्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्यन्तरश्चाकारः संस्थानविशेषो येषां ते 'नियताकारा' पूरणगलनधर्माणः स्पर्शरसगन्धवणेव
न्तः 'पुद्गलाः', तथाहि श्रोत्रादिषु यः कर्णशष्कुलीप्रभृतिर्बाह्यः पुद्गलानांप्रचयो यश्चाभ्यन्तरः 15 कदम्बगोलकाद्याकारः स सर्वो द्रव्येन्द्रियम् , पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्य
शब्दो यथा अङ्गारमईको द्रव्याचार्य इति । अप्रधानमिन्द्रियं द्रव्येन्द्रियम् , व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोकप्रभृतिनि सहकारिपटले भावेन्द्रियं विना स्पर्शाधुपलब्ध्यसिद्धेः ॥२२॥
भावेन्द्रियं लब्ध्युपयोगौ ॥२३॥ 20 ६८५. लम्भनं 'लब्धिः' ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सभिधानादात्मा द्रव्ये
न्द्रियनिवृत्तिं प्रति व्याप्रियते तनिमित्त आत्मनः परिणामविशेष उपयोगः। अत्रापि 'भावेन्द्रियम्' इत्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुपसर्जनार्थः। यथैवेन्दनधर्मयोगित्वेनानुपचरितेन्द्रत्वो भावेन्द्र उच्यते तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादि
धर्मयोगि 'भावेन्द्रियम् । 5 ६८६. तत्र लब्धिस्वभावं तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिपद्यते । नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नयव्यापृतं स्पर्शनोदिसंवेदनं स्पर्शादि प्रकाशयितुं शक्तम् , सुषुप्तादीनामपि तत्प्रकाशकत्वमाप्तेः।
१ द्वाविंशतितमं त्रयोविंशतितमं च सूत्रद्वयमेकत्वेन ता-मू० प्रतौ दृश्यते । २.०लब्ध्ययोग्यतया सिद्धेःता०।३-०धानाद्वात्मा-डे० । धानाध्यात्मा-मु०। ४.प्राधान्यार्थः । ५ स्पादि०-ता। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org