________________
१०
अ. १. सू. १० ] काव्यानुशासनम्
असतोऽपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पलादीनां, जलाशयमात्रेऽपि हंसादीनां, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति ।
नदोष्वित्यादि । निबन्धः इति प्रत्येकामिसंबध्यते । तत्र नदीषु पद्मानि यथा
दी/कुर्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमशानुकूल: सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ७१ ॥
[ मे. दू. पू. मे. श्लो. ३१ ] नीलोत्पलानि यथा
गगनगमनलीलालम्भितान्स्वेदबिन्दून मृदुमिरनिलवारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यत्
दिनपतिसुतयेव व्यक्तदत्ताकपालीम् ॥ ७२ ॥ एवं कुमुदायपि ।
[ .. ] जलाशयेमाने हंसा यथा
आसीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशववत्करिष्यति पुनः श्रीमत्कुडङ्गेश्वरम् । हेलादोलितहंससारसकुलक्रेङ्कारसंमूछितैः
इत्याघोषयतीव तनवनदी यच्चेष्टितं वीचिमिः ॥७३॥ यत्र तत्र पर्वते सुवर्ण यथा
नागावासश्चित्रपोताभिरामः
स्वर्णस्फातिव्याप्तदिकचक्रवाल: । 1. N. पद्मनिबन्धो 2. N. हसादयः 3. C. हेलाक्षालित०. N. हेलान्दोलित. 4. A. B. °शोषयतीव. 5. C. स्वर्णस्याति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org