________________
१०३) अ. ४ सू. ९] काव्यानुशासनम्
२९३ कचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव । यथा
प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघातत्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥४२९॥
[छ. रा. क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव । यथा-आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । __ न ममृणा इति । गद्यस्य विकटनिबन्धाश्रयेण च्छायावत्त्वात् । १०
नाटकादो रौद्रेऽपीति । न केवलं करुणविप्रलम्भयोः । रौद्रेऽपि न दीर्घसमासादयो निबन्धनीयाः । कथमिति चेत् , उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतीतो व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासः । समासानामनेकप्रकारसंभावनया रसप्रतीतिं कदाचिद् व्यवदधातीति तस्मिन्नात्यन्तिकमभिनिवेशः शोभते, विशेषतोऽभिनेयार्थे काव्ये । १५ तत्रापि करुणविप्रलम्भशृङ्गारयोः। तयोहि सुकुमारत्वात् स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाये रौद्रादौ मध्यमसमासोऽपि, कदाचिद्धीरोद्भतनायकसम्बव्यापाराश्रयेण दीर्घसमासोऽपि वा तदाक्षेपाविनाभावि रसोचितवाच्यापेक्षया न विगुणो भवतीति सोऽपि नात्यन्तं परिहार्यः । सर्वत्र च प्रसादाख्यो गुणो व्यापी। स हि सर्वरससाधारण इत्यु- २० क्तम् । प्रसादातिकमे यसमासोऽपि करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपस्त्यिागे मध्यमसमासोऽपि प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदं पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रती क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥४५५।।
[वे. सं. अं. ३. श्लो. ३२ ] 1. P. काकुस्थ°2. N °मदात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org