SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७६ काव्यानुशासमम् [९५) अ. ४. सू. १ वघेणान्तर्भु वजिन् जहि बहुविशतं वासुके शेष घोणां दन्तैर्दिग्दन्तिनोऽक्ष्णो विघटयत पुटान लीहिं त्रिशूलैः । दध्वन्यध्वं श्रवःस्थाः प्रलयजलमुचः कूर्म आकम्पयोर्वी मैनाकक्षुद्विवक्षस्तटमटतु रणे कुम्भकणोंऽस्तनिद्रः ॥४०६॥ तस्मान गाढत्वमोजः । अर्थगुणस्तु (94) 'अर्थस्य प्रौढिरोजः' इति वामनः । [ का. लं. सू. अधि. ३. भ. २. सू. २ ] (95) पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिाससमासौ च ॥ [ का. लं. सू. अधि. ३. अ. २. सू. २. ] इति या प्रौढिरोजस्तद्वैचित्र्यमात्रम् । साभिप्रायत्वरूपं चौजोऽपुष्टार्थत्वदोषाभावमात्रं न गुणः । किं च । भोः सहृदया अथों जडस्तस्याभिप्राय इति केयं भाषा । वक्तृश्रोत्रोः स इति चेत्तद्गतोऽर्थस्य गुण इति कथम् । अथ वस्त्वन्तराक्षेपकत्वमेव तस्य गुण इत्युच्यते । तद्वस्त्वन्तरमाक्षेप्यं वक्त्रभिप्रायरूपमेवमाक्षेपकत्वमपि कविव्यापारबलादेव, तथाविनिवेशनाप्रकारयोगे तथाभावात् । अत एव प्रौढिर्वस्तुतो वक्तृगतैव, सा त्वर्थे काममुपचर्यतामित्यलं बहुना । (96) 'विभक्तिवाच्यवाचकयोगादनुक्तयोरपि शब्दार्थयोः प्रतिपत्तिः प्रसादः' इति भरतः । [ पदपूर्विका तदर्थावगतिरिति शब्दार्थयोर्ग्रहणम् । यथायस्याहुरतिगम्भीरजलदप्रतिम गलम् । स वः करोतु निःसनमुदयं प्रति मङ्गलम् ॥४०७॥ 1A. B. द्विशूलैः 2 A. B. C. do not give the fourth pāda which is as follows: साभिप्रायत्वमस्य च ॥ + ना. शा. (C. S. S.) reads as follows: अप्यनुक्तो बुधैर्यत्र शब्दोऽथों वा प्रतीयते । सुखशब्दार्थसंबोधात् प्रसादः परिकीर्त्यते ॥ अ. १७ श्लो. ९९ बहुशो यत्कृतं काव्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमुदाहृतम् ॥ भ.१६.श्लो. ९४ना.शा.(N. S.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy