________________
८७) अ. ३ सू. ३]
काव्यानुशासनम्
१८१
सप्तेत्यन्ये । यथा
अगस्त्यचुलकोत्क्षिप्तसप्तवारिधिवारिणि । मुहूर्त केशवेनापि तरता पूतरायितम् ॥ २२१ ॥
कविप्रसिद्धया वा विमृष्टपरमार्थ सर्वमुपपन्नम् ।
मध्ये जम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः ।। यो मूर्तानामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ॥२२२॥
तमेनमवधीकृत्य ब्रह्मणा पुण्यकर्मणा । तिर्यगूर्वमधस्ताच्च विश्वस्य रचना कृता ॥ २२३ ॥
१० मेरोश्चतुर्दिशमिलावृतं वर्षम् । तच्चोत्तरेण त्रयो वर्षगिरयः । नील: श्वेतः शृङ्गवाँश्च । रम्यक हिरण्मयमुत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि । दक्षिणेनापि त्रय एव । निषधो हेमकूटो हिमवाश्च । हरिवर्षे किंपुरुषं भारतमिति त्रीणि वर्षाणि । तत्रेदं भारतं वर्षमन्त्यम् । अस्य च नव भेदाःइन्द्रद्वीपः कसेरुमास्ताम्रपणों गभस्तिमान् नगद्वीपः सौम्यो गन्धवों वरुण: १५ कुमारीद्वीपश्च । पञ्च शतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्राद्धिमवन्तं यावत् परस्परमगम्यास्ते । तान्येतानि यो जयति स सम्राडित्युच्यते । कुमारीपुरात्प्रभृति बिन्दुसरोवधि योजनानां दशशती चक्रवर्तिक्षेत्रम् । तां विजयमानश्चक्रवर्ती भवति । चक्रवर्तिचिह्नानि तु(58) चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।
२० प्रोक्तानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् ॥
कुमारीद्वीपे च(59) विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः ।
महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥
तत्र विन्यादयः प्रतीतस्वरूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमो
यथा
आमूलयष्टेः फणिवेष्टितानां सचन्दनानां जननन्दनानाम् । कक्कोलकैलामरिचैवतानां जातीतरूणां च स जन्मभूमिः ॥२२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org