SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३ सू. ३] काव्यानुशासनम् प्रकृतिव्यत्यय इति । प्रकृतिर्दिव्या मानुषी दिव्यमानुषी पाता इत्यादिना । पञ्चमे समागमप्रत्याशया विप्रलम्भेऽङ्कुरितेतथाभूते तस्मिन् मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा । प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिविधुरम् समुद्भिन्ना पीतैर्नयनसलिलैः स्थास्यति पुरः ॥ १९६ ॥ [ ता. व. अं. ५. इत्यादिना । षष्ठे चत्वत्सम्प्राप्तिविलोमितेन सचिवैः प्राणा मया धारितास्तन्मत्वाऽत्यजतः शरीरकमिदं नैवास्ति निःस्नेहता | आसनोऽवसरस्तवानुगमने जाता वृतिः किं त्वयम् खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुणे ॥ १९७ ॥ [ ता. व. अं. ६. इत्यादिना च वासवदत्ताविषयो जीवितसर्वस्वाभिमानात्मा प्रेमबन्धस्तत्तद्विभावौचित्यात्करुणविप्रलम्भादिभूमिकां गृह्णन् विच्छिन्नविच्छन्नोऽपि समस्तेतिवृत्तब्यापितया दर्शितः । राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मावतीला भानुगतयानुप्राण्यमानरूपा वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि ] दृष्टा यूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः । सम्बन्धोऽभूद्दर्शनापि सार्धं किं तद् दुःखं यत्नतः शान्तमद्य ॥१९८॥ [ ता. व. ] इति देवीलाभप्राधान्यं निर्वाहितम् ॥ दिव्येति । दिव्यः स्वभाव इत्यर्थः । एवं मानुष्यादिष्वपि व्याख्येयम् । तत्र दिव्या यथा स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोरुगीत नलकूबरस्य विरहादुत्कण्ठलं रम्भया । तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जहद भूयः कारित एव हासिनि शचीवक्त्रे दृशां संभ्रमम् ॥ १९९ ॥ [ 2. C. प्रीतै 1. C. drops इत्यादिना ] Jain Education International For Private & Personal Use Only ] १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy