________________
६७४
10
प्रथम परिशिष्टम् । स्तन-पादा-ऽङ्गुष्ठोरु-गुह्य-भुज-हस्त-मस्तक-कर्णा-ऽक्षि-कक्ष-शङ्ख-दन्ता-ऽङ्गष्ठौष्ठं नख-गल-स्कन्ध-गण्डं केश-सन्धयः पुरुषाख्यानीति" । अथ स्त्रीसंज्ञानाह-'स्त्रियां' इति एतान्यङ्गानि स्त्रियां भवन्ति । भ्रुवौ प्रसिद्धे । नासा-याणम् । स्फिजौ-प्रसिद्धौ । वली-लेखा, यथा त्रिवली । कटि:-प्रसिद्धा । सुलेखा-शोभनलेखा करमध्यस्था । अङ्गुलिचयं-अङ्गुलिसमूहः ॥ ८॥ अन्यानपि स्त्रीसंज्ञानाह
जिह्वा ग्रीवा पिण्डिके पार्णियुग्मं जो नाभिः कर्णपाली कृकाटी।
वकं पृष्ठं जत्तु जान्वस्थि पाच हृत्ताल्वक्षि स्यान्मेहनोरस्त्रिकं च ॥९॥ .. 'जिह्वा' रसना । 'ग्रीवा' कृकाटिका । 'पिण्डिके' जङ्घयोः पश्चिमभागौ। 'पाणी' चरणयोः पश्चिमभागौ 'जवे' प्रसिद्ध । 'नाभिः' तुन्दः । 'कर्णपाली' प्रसिद्धा । 'कृकाटी' ग्रीवापश्चिमभागः। [............] ॥९॥
नपुंसकाख्यं च शिरो ललाटमाश्वाधसंज्ञैरपश्चिरेण ।
सिद्धिर्भवेज्जातु नपुंसकों रूक्ष-क्षतैर्भग्न-कृशैश्च पूर्वैः ॥१०॥ 'शिरः' मस्तकम् । 'ललाटं' मुखपृष्ठम् । एतत् सर्वं नपुंसकाख्यम् । तथा च परासरः-"शिरो-ललाट-मु... बु...पृष्ठ-जठर-जत्तु-जान्वस्थि-पार्श्व-हृदय-कर्णपीठा-ऽक्ष-मेहनोरस्त्रिक-ताल्विति नपुंसकाख्यानि" । अथ 'आद्यसंज्ञैः' प्रथमत उक्तैः पुन्नामभिः स्पृष्टैः 'आशु' क्षिप्रमेव सिद्धिः 'स्याद्' भवेत् । 'अपरैः' तदनन्तरोक्तेः स्त्रीनामभिश्चिरगा
सिद्धिर्भवेदिति । नपुंसकैः स्पृष्टैः 'न जातु' न कदाचित् सिद्धिः स्यात् । 'रूक्ष-क्षतैर्भम-कृशैश्च पूर्वैः' इति, नेत्यनुवर्तते, 15 पूर्वैः पुनामभिः स्त्रीनामभिर्वा रूक्षैः-अस्निग्धैः क्षतैः-सप्रहारैः भग्नैः-स्फुटितैः कृशैश्च-अल्पमांसैन जातु सिद्धिः । तथा
च परासरः-"तत्र पुन्नामभिरस्निग्धमनुपहतमरोगमङ्गं स्पृष्टं दिग्देश-काल-व्याहारेष्टदर्शन-निरुपहतप्रष्टः पृच्छार्थे सकलमवभित्तयति, स्त्रीसत्कमपि पूर्वोक्तलक्षणमुक्तं तत् कालान्तरेणासकलम् । नपुंसकाख्यमकार्यसिद्धिमनर्थानां च गमनं कुर्यात् । अपि च भवति याऽत्र
पुंसंज्ञेष्वाशु सिद्धिः स्यात् स्त्रीसंज्ञेषु चिराद् भवेत् । अशुभं त्वेव निर्दिष्टं नपुंसकसनामसु ॥ १॥... 30
पुरुषाख्येऽपि संस्पर्श बाह्ये रूक्षे च लक्षिते । नार्थसिद्धिमथो ब्रूयादङ्गविद्याविशारदः ॥ २॥” इति ॥ १०॥
अथ पृथक् पृथक् फलनिर्देशार्थमाह- स्पृष्टे वा चालिते वाऽपि पादाङ्गुष्ठेऽक्षिरुग् भवेत् ।
अङ्गल्यां दुहितुः शोकं शिरोधाते नृपाद भयम् ॥११॥ . तत्र पृच्छायां पादाङ्गुष्ठे चालिते स्पृष्टे वा प्रष्टुः 'अक्षिरुग्' नेत्रपीडा 'स्याद्' भवेत् । अङ्गुल्यां स्पृष्टायां दुहितुः 25 शोकं वदेत् । 'शिरोधाते' शिरोऽभिहत्य पृच्छेत् तदा 'नृपाद्' राजतो भयं ब्रूयात् । अथ पृथक् पृथक् फलनिर्देश:"तत्र पादाङ्गुष्ठं प्रचालयन् स्पृष्ट्वा वा पृच्छेत् तत्प्रष्टुश्चक्षुरोगं विनिर्दिशेत् , अङ्गुली स्पृष्ट्वा दुहितृशोकम् , शिरसि हन्यमाने राजभयम् ॥ ११ ॥ अन्यदप्याह
विप्रयोगमुरसि खगोत्रतः कर्पटाहृतिरनर्थदा भवेत्।।
स्यात् प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरण-पादयोजितुः॥१२॥ .........सह विप्रयोगं प्रवदेत् 'स्वगोत्रतः' आत्मीयवर्गात् । 'कर्पटाहृतिः' वस्त्रत्यागः 'अनर्थदा'.........। ' 'कर्पट' वस्त्रं 'अभिगृह्य' प्राप्य चरणं–पादं पादे-द्वितीय चरणे योजयति तस्य 'पृच्छतः' प्रष्टुः प्रेयलाभः स्यात् । तथा
च परासरः- "उरः स्पृष्ट्वा विप्रयोगं गोत्रात्, वस्त्रमुत्सृजतोऽनर्थागमम् , पादं पादेन संस्पृशेत् पटान्तमभिगृह्य वा पृच्छेत् प्रियसमागमं विद्यात्" ।। १२ ॥ अन्यदप्याह..... पादाङ्गुष्ठेन विलिखेद् भूमि क्षेत्रोत्थचिन्तया।
हस्तेन पादौ कण्डूयेत् तस्य दासीमया च सा ॥ १३ ॥ .. प्रष्टा क्षेत्रोत्थचिन्तया पादाङ्गुष्ठेन 'भूमि' भुवं विलिखेत् , 'हस्तेन' करेण पादं कण्डूयेत् तदाऽस्य 'सा' चिन्ता
30
33
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org