________________
10
प्रथमं परिशिष्टम्
॥ जयन्तु वीतरागाः॥ सटीकं अङ्गविद्याशास्त्रम्
ccccccccce...तानां कालोऽन्तरात्मा सर्वदा सर्वदर्शी शुभाशुभैः फलसूचकैः सविशेषेण प्राणिनामपराङ्गेषु स्पर्श-व्याहारे5 ङ्गितचेष्टादिभिर्निमित्तैः फलमभिदर्शयति । तत्प्रयतो दैवज्ञोऽप्रहतमतिरवधार्य खशास्त्रार्थमनुसृत्य यशोवानुग्रहार्थमर्थिनां शुभा-शुभानां भावा-भावमभिनिर्दिशेत् ।
तत्र दिशं दिशः कालं व्याहारद्रव्यदर्शनम् ।
अङ्गप्रत्यङ्गस्पर्शनं समीक्ष्य फलमादिशेत॥१॥ इति ॥ १॥ स्थानं पुष्पसुहासिभूरिफलभृत्सुलिग्धकृत्तिच्छदा
___ ऽसत्पक्षिच्युतशस्तसंज्ञिततरुच्छायोपगूढं समम् । देवर्षि-द्विज-साधु-सिद्धनिलयं सत्पुष्प-सस्योक्षितं,
सत् स्वादूदकनिर्मलत्वजनिताहादं च सच्छालम् ॥२॥ एवंविधं स्थानं 'सत्' पृच्छायां शुभदमित्यर्थः । कीदृशम् ? एवंविधानां तरूणां-वृक्षाणां या छाया तयोपगूढंछन्नम् । कीदृशानाम् ? 'पुष्पसुहासि' पुष्पाणि-कुसुमानि शोभनो हासो येषां ते पुष्पसुहासिनः । तथा भूरीणि-प्रभूतानि 15 फलानि [बिभ्रति-] धारयन्ति ये ते भूरिफलभृतः । सुस्निग्धा कृत्तिः-त्वक् छदानि-पर्णानि येषां ते सुस्निग्ध
च्छदाः । तथा असत्पक्षिभिः-अनिष्टविहगैः काकोलूकादिभिश्युताः-रहिताः। तथा शस्तसंज्ञिता:-प्रशस्तनामानो ये पलाशपिप्पल-न्यग्रोध-बिल्वप्रभृतयः । तथा 'सम' निम्नोन्नतावनिरहितम् । 'देवर्षीति' देवाः-सुरा ऋषयः-मुनयो द्विजाः विप्राः साधवः-सन्तः सिद्धाः-देवयोनय एतेषां यन्निलयं-स्थानम् । तथा सत्पुष्पैः-सुगन्धैः कुसुमैः सस्यैश्च-धान्यादिभिर्युतं उक्षितं-सेवितं शुभम् । तथा 'स्वादूदकनिर्मलत्वजनिताहादं च' स्वादु-मृष्टं यदुदकं-जलं निर्मलं-प्रसन्नं च 20 तद्भावेन जनितं-उत्पादितं आह्वाद-चित्तहर्षम् , यत् तथाभूतेनोदकेन युक्तम् । 'सच्छावलं' शोभनदूर्वायुक्तं तत् सदिति । तथा च परासरः-“अथ पुष्पितफलितहरितस्निग्धत्वपत्रनामाङ्कितसौम्यद्विजवरनिषेविततरुच्छायोपगूढे सस्यकुसुमरहितमृदुशावलासिक्तमृष्टहृद्यप्रसन्नसतिलाशयेऽवकाशे देवर्षिसिद्धसाधू......... ............पूर्वाभिमुखो वा यः पृच्छेत् तस्य प्रार्थितार्थोपपत्तिमे भिर्निर्दिशेत्" ॥२॥ अथ [अशुभस्थानप्रदर्शनार्थमाह
छिन्न-भिन्न-कृमिखात-कण्टकि-प्लुष्ट-रूक्ष-कुटिलैन सत्कुजैः। - क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः ॥३॥
एवंविधैः कुजैः-वृक्षैर्युतं असत् । कीदृशैः ? छिन्नैः-कल्पितैः, भिन्नैः-कुटिलैः, कृमिखातैः-कीटक्षितैः, कण्टकिभिः-सकण्टकैः, प्लुष्टैः-दुष्टैः रूक्षैः-अस्निग्धैः, कुटिलैः-अस्पष्टैर्न शोभनैः । कौ-भूमौ जायन्त इति कुजाः । तथा करैः-अनिष्टैः पक्षिभिः-विहगैः काक-गृध्र-बकाधैर्युक्तैः निन्द्यनामभि:-कुत्सितसंज्ञैः बिभीतका............। शुष्कैः-- नीरसैः । तथा शीर्णानि-च्युतानि बहूनि पर्णानि-प्रभूतानि पत्राणि चर्माणि-त्वचो येषां ते॥३॥[अन्यद] प्याह
श्मशान-शून्यायतनं चतुष्पथं तथाऽमनोज्ञं विषमं सदोषरम् । __ अवस्करा-ऽङ्गार-कपाल-भस्मभिश्चितं तुषैः शुष्कतृणैर्न शोभनम् ॥४॥
एवंविधं स्थानं पृच्छायां न शोभनम् । कीदृशम् ? श्मशानं-शवशयनप्रदेशः। शून्यायतनं-उद्वासितदेवगृहम् । 'चतुष्पथं' चत्वारः पन्थानो यत्र । तथा 'अमनोज्ञं न चित्ताहादकम् । विषम-निम्नोन्नतम् । सदा-सर्वकालमूषरं
१ अन्थोऽयमाद्यन्तविरहितः खण्डित एव प्राप्तोऽस्ति, अतो नामाप्यस्येदं मत्परिकल्पितमेव ज्ञेयमिति ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org