SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १५. पनरसमं इंदियपयं ___ पढमो उद्देसो [सुत्तं ९७२. पढमुद्देसस्स अत्थाहिगारा] ९७२. संठाणं १ बाहलं २ पोहत्तं ३ कतिपएस ४ ओगाढे ५। अप्पाबहु ६ पुट्ठ ७ पविट्ठ ८ विसय ९ अणगार १० आहारे ११ ५ ॥२०२॥ अद्दाय १२ असी १३ य मंणी १४ उडुपाणे १५ तेल्ल १६ फाणिय १७ वसा १८ य । कंबल १९ थूणा २० थिग्गल २१ दीवोदहि २२ लोगऽलोगे २३-२४ य ॥ २०३॥ १८ १ मणी दुद्ध पाणे तेल्ल म०प्र० पु१ पु२ पु३ मु० । प्रत्यन्तरेषु दृश्यमानोऽयं पाठभेदो लिपिविकारजनितः सम्भाव्यते, छन्दोभङ्गोऽप्यत्र सजायते। प्राचीनासु सूत्रप्रतिषु प्राचीनासु सर्वास्वपि हरिभद्रवृत्तिप्रतिषु च गाथापाठे उडुपाणे इत्येव पाठ उपलभ्यते। मलयगिरिवृत्तौ यद्यपि मुद्रितादर्शे (पत्र २९३-१) “ ततो मणिविषयं ततो दुग्धोपलक्षितं ततः पानकविषयं ततस्तैलविषय" इति वृत्तिपाठो मुद्रितो दृश्यते. किश्चास्मदवलोकितेषु सर्वेष्वपि तालपत्रीयादिवृत्त्यादर्शेषु "ततो मणिविषयं ततस्तैलविषयं" इत्येव पाठो वर्तत इत्यतोऽत्र प्राचीनकालादेव उडुपाणे इत्यर्थाधिकारव्याख्यासूचको दुद्ध पाणे इत्यर्थाधिकारव्याख्यासूचको वा ग्रन्थो गलितोऽस्ति । किञ्चात्र उडुपाणे इति पाठो योग्यः ? दुद्ध पागे इति वा पाठो योग्यः ? इति विचार्यते-तत्र तावद् मलयगिरिवृत्तौ मुद्रितः “ततो दुग्धोपलक्षितं ततः पानकविषय” इति पाठस्तु केनापि विदुषा स्थानपूर्त्यर्थं प्रक्षिप्तोऽयोग्य एव, श्रीमद्भिर्मलयगिरिसूरिपादैः स्वयमेवाग्रे (पत्र ३०५-२) "एवमसि-मण्यादिविषयाण्यपि षद् सूत्राणि भावनीयानि” इति निर्देशनात् , मुद्रितवृत्तिपाठप्रामाण्यस्वीकरणे असि १ मणि २ दुग्ध ३ पान ४ तैल ५ फाणित ६ वसा ७ इत्येवं सप्तसूत्रसंख्याभावाच । अत एव येन केनापि गीतार्थेन प्रक्षिप्तोऽयं पाठो भवतु तथाप्यप्रमाणभूतोऽयं वृत्तिगतो मुद्रितः पाठ इत्यस्माभिः पूर्वापरं ग्रन्थसन्दर्भमनुसन्धायात्र उडुपाणे इत्येव पाठ आइतोऽस्ति । मलयगिरिवृत्तौ चेद् गलितपाठानुसन्धानं कर्तव्यं तर्हि "ततो मणिविषयं तत उदपानविषयं] ततस्तैल विषयं” इतिरूपेणैव विधातव्यम् । यद्यप्यत्र श्रीमलयगिरिपादवृत्तिवचनादेव उडुपाणे इति पाठः प्रामाण्यकोटिमधिरूढ एव वर्तते तथापि उडुपाणपाठप्रामाण्यसविशेषनिर्णयार्थ निशीथसूत्रत्रयोदशोद्देशकगतं सूत्रकदम्बकमप्यत्र सोपयोगमिति तदत्र प्राचीनतमप्रत्यन्तराधारेणोद्भियते—“जे भिक्खू अदाए० असीए० मणिम्मि० उडुपाणे० तेल्ले० फाणिए० वसाए अप्पाणं देहति।" अत्र सूत्रकदम्बके श्रीमलयगिरिभिर्निर्दिष्टानि असि-मणि-उडुपाण-तेल्ल-फाणिय वसारूपाणि षट् सूत्राण्येव वर्तन्त इति प्रज्ञापनासूत्रस्य प्राचीनासु प्रतिषूपलभ्यमानः “अदाय असी य मणी उडुपाणे तेल्ल फाणिय वसा. या" इतिरूपः सूत्रपाठ एव वरीयानिति। अपि च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy